________________
३वनपर्व-४सर्गः]
बालभारतम् ।
दशास्यघातनं रौद्रं क्लेशात्कान्ताविमोक्षणम् । विना रामं न कोऽप्यासीढुःखैरेतैर्न दीर्यते ॥ ९४ ॥ दुःखद्रुकृन्तने कुन्तो भवाकूपारनाविकः । कृष्णः कमलपत्राक्षो ध्येयो वै भवता हरिः ॥ ९५ ॥ एकार्णवनलं श्रान्तो बहुभ्यामतरत्परा । आलोकि वटपत्रस्थं बालं बालरविच्छविम् ॥ ९६ ॥ अन्वगामुदरे तस्य नीतो नासाग्रवायुना । रक्षितो क्षयपर्यन्तमभवं पूर्ववत्ततः ॥ ९७ ॥ वैवस्वतमनुः पूर्व मच्छ(त्स्य)रूपेण विष्णुना। सततं वर्धमानेन नावमारोप्य रक्षितः ॥ ९८ ॥ यूयं धर्मविदः कृष्णाप्रियप्रेमपरायणाः । दुःखाब्धेरञ्जसा पारमपारस्य गमिष्यथ ॥ ९९ ॥ आसीत्पूर्व तपोराशिः कौरस्यः कौशिको मुनिः । विण्मूत्रैर्दुःखितो मूनि द्रुमूलस्थो बलाकया ॥ १०० ॥ क्रुधा विलोकनेनैव प्रेषितो यमसादनम् । भ्रमताहारकामेनासादितं कस्यचिद्गृहम् ॥ १०१ ॥ द्वारिस्थं कौशिकं क्षिप्रं कान्तया गृहिणोऽतिथिम् । नाचितं ह्यन्नपानाधैर्धवशुश्रूषकामया ॥ १०२ ॥ पतिव्रतां चिरायातां क्रुधाम्यधत्त कौशिकः । किं नोऽतिथिस्त्वया ज्ञातश्विरोषितगृहाङ्गणः ॥ १०३ ॥ आबभाषे सती जातं विलम्बं भर्तृकार्यतः । विधि(द्धि) नाहं बलाका सा त्वत्तः पञ्चत्वमागता ॥ १०४ ॥ साश्चर्य प्राह मे वृत्तं कथं ज्ञातं पतिव्रते । कथयिष्यति ते व्याधो मिथिलायां जगाद सा ॥ १०५ ॥ गतेनालोकि वैदेह्यां मांसविक्रयकारकः । धर्मव्याधोऽपि तं प्राह सतीनुन्नो भवानिति ॥ १०६ ॥
Aho! Shrutgyanam