________________
३वनपर्व-४सर्गः] बालभारतम् ।
मा भूविषादभूर्भूप रणाय प्रगुणाशयः । वयं ते हन्त गान्तारो विग्रहाय सहायताम् ॥ ६८ ॥ इत्युदीर्य ज्वलद्वीर्यैः प्रहितस्त्रिदशाहितैः। संपरायपरायत्तचित्तः पुरि ययौ नृपः ॥ १९ ॥ तं भीष्मोऽथ सदस्यूचे दिष्यासि कुशली नृप । दृष्टस्त्वया स्वयं तादृग्विक्रमः कर्णपार्थयोः ॥ ७० ॥ ततोऽधुनापि संधत्स्व विभागं देहि भोगिषु । विरोधक्रोधकीलाभिर्मा कुलं व्याकुलं कृथाः ॥ ७१ ॥ इत्युक्तियुक्तेऽवज्ञाते याते सिन्धुसुते नृपः । दैत्योक्तिस्मरणस्मेरवैरो वैरोचनि जगौ ॥ ७२ ॥ दुरोदरजितो युद्धे जेतव्यो जीयतेऽधुना। राजसूयमखोत्थेन धर्मसूधर्मकर्मणा ॥ ७३ ॥ सर्वदिग्जैत्रयात्रस्त्वं भव भीमार्जुनादिवत् । कृतधर्मात्मजासूयं राजसूयं तनोम्यथ ॥ ७४ ॥ अथ प्रारब्धसंरब्धनियूंढप्रौढदिग्जये । राधेये राजसूयेच्छं पुरोधा नृपमभ्यधात् ॥ ७५ ।। एकस्मिन्सति सम्राजि नान्यः सम्राड् भवेदिति । तद्राजनराजसूयस्य मा भूः कर्मणि कर्मठः ॥ ७६ ॥ परीतपुरुहूताथै हूतानागतपाण्डवम् । ततः प्रतेने राजासौ राजसूयसमं मखम् ॥ ७७ ॥ यज्ञान्ते तं जगौ कर्णो हते युधि युधिष्ठिरे । राजसूये त्वया प्राप्ते भजिष्ये हृदि संमदम् ॥ ७८ ॥ करिष्ये पादशौचं तु नाहं हत्वार्जुनं रणे । श्रुत्वेति हस्तगं मूढो मेने दुर्योधनो जयम् ॥ ७९ ॥ इतश्च मृगयाक्षीणैर्विज्ञप्तः स्वप्नगैर्मगैः ।
कृपालुः काम्यके पार्थस्तृणबिन्दुसरो ययौ ॥ ८० ॥ १. 'संधेहि' ग. २. अयं श्लोको ग-पुस्तकेऽग्रिमश्लोकात्परत्र. ३. 'सूत' ग.
Aho! Shrutgyanam . .