________________
काव्यमाला |
चित्रसेनं गदाचित्रगतिं मित्रमथार्जुनः ।
पुष्प श्लक्ष्णैरपि शरैश्चक्रे काम इवाकुलम् ॥ १९ ॥ उase चित्रसेनस्तं पार्थ स्वार्थेऽपि मा मुहः । हन्त कर्षति हन्तव्यं सर्प कः पङ्कतः कृती ॥ ९६ ॥ श्रीमानपश्रियो युष्मान्यक्कर्तुं रिपुरापतन् ।
मया शक्राज्ञया जहे तन्मुक्त्यै किमु ताम्यसि ॥ १७ ॥ किं च युष्मासु यन्मूलः प्रतिकूलत्वपादपः । नालाभिः स तदास्माभिः कर्णस्तूर्ण पलायितः ॥ १८ ॥ पार्थोऽप्यूचे जितं नान्यैः सहन्तेऽरिं जिगीषवः । निजं भोजनमुच्छिष्टीकृतमन्यैः क्षमेत कः ॥ १९ ॥ परस्परापराधेषु वयं पञ्चशतं च ते । अपरैः परिभूतासु प्रयामः कागमेकताम् ॥ ६० ॥ किं वा बहूक्तिभङ्गीभिरङ्गीकृतमिदं मया । राज्ञः कृपापयोराशेराज्ञया तद्विमोचनम् ॥ ६१ ॥ मुक्तोऽथ चित्रसेनेन यज्ञोर्व्या सानुजो नृपः । नतास्यो मयि तिष्ठेति त्रपामनुनयन्निव ॥ ६२ ॥ द्यां गते चित्रसेनेऽथ वीरान्पार्थहतान्हरिः । अजीजिवद्दवलष्टानि वृट्यमृतं तरून् ॥ ६३ ॥ वत्स नेदृक्पुनः कृत्यमित्युक्तो धर्मसूनुना । दुर्योधनो ह्रिया दीर्यमाणहृच्चलितस्ततः ॥ ६४ ॥ द्वेषिभिर्मुञ्चितोऽस्मीति मानी मृत्यून्मुखः पथि । स्थितोऽसौ निर्भरं दर्भास्तरणेऽस्तरणेप्सितः ॥ ६९ ॥ कुतोऽप्यागत्य विज्ञातवृत्तेनादित्यसूनुना । दुःशासनशकुन्याद्यैर्बोधितोऽपि स नोत्थितः ॥ ६६ ॥ कृत्यया हारयित्वाथ निशितं निशितैौजसः । जगदुर्जगदुन्मादभेदिनः श्वभ्रदानवाः ॥ ६७ ॥
१. ‘निर्वृष्टयेवाम्बुदस्तरून्' ख-ग.
२१०
Aho ! Shrutgyanam