________________
३वनपर्व-४सर्गः]
बालभारतम् ।
२०९
इति तच्चरितानन्दमण्डनाः पाण्डुनन्दनाः। काम्यकं वनदेवीभिरापृष्टकुशला ययुः ॥ ४३ ॥ हरिनारदमार्कण्डैरथागत्य कथाततिम् । कथयित्वा चिरं तेषां गतमेभिर्यथा गतम् ।। ४४ ॥ पितरं घोषगोवीक्षाच्छलेनापृच्छय कौरवः । तद्धर्षणाय कर्णोक्त्या सैन्यद्वैतवनं ययौ ॥ ४५ ॥ स च द्वैतसरस्तीरे निवासेच्छुर्निवारितः । तत्क्रीडाबन्धुगन्धर्वचित्रसेनानुचारिभिः ॥ ४६ ॥ द्राग्विरथ्याधिरथ्यादीनथ तत्करणे रणे । सानुजं भूभुजं चित्रसेनः सेनाग्रतोऽहरत् ॥ ४७ ॥ पार्थेशमथ राजर्षियज्ञे तद्दिनदीक्षितम् ।
आश्रित्य द्वैतवनगं चक्रन्दुः कौरवप्रियाः ॥ ४८ ।। अथासौ तत्कथां श्रुत्वा हास्यमुन्मोच्य मारुतिम् । आदिशत्कुल्यमोक्षाय धनंजययमान्वितम् ॥ ४९ ।। भीमार्जुनयमैः शत्रुयमैरथ दिवं प्रति । वृष्टं नाराचधाराभिर्विपरीताम्बुदैरिव ॥ ५० ॥ तद्भियाभूदतापोऽर्कः स्वैरेव स्वेदबिन्दुभिः । सारथिस्तद्रथावस्तमनाः पङ्गुः करोतु किम् ॥ ११ ॥ घ्नन्ति त्वद्वंशजाः स्वामिन्निति वक्तुमिवोडुपम् । तुल्यमध्यायि नक्षत्रैर्गन्तुं मेरोः परां तटीम् ॥ ५२ ॥ धावत्क्रोधान्धन्धिर्वसैन्यदैन्यकराशरान् । खण्डयपाण्डुपुत्राणां चित्रसेनोऽभ्यवर्तत ।। ६३ ।। विझून्य पावकास्त्रेण शत्रुमायामयं तमः । अवधीदशगन्धर्वलक्षी मघवतः सुतः ॥ १४ ॥
१. 'त्करणे' ग. २. 'तत्र सेनः' ख. ३. 'वारिभिः' ग. ४. 'गन्धर्व' ग. ५. 'न्यव' ग. ६. 'विद्राव्य' ग.
Aho! Shrutgyanam