________________
२०८
काव्यमाला ।
भीरूणामपि नेत्रान्तललितालोकनेन यः । कम्पते नाग निर्मुक्तधैर्यः स खलु कातरः ॥ ३० ॥ सत्यं तच्च हितं जन्तोरसत्यमपि यद्वचः । असत्यमेव तत्सत्यमपि यत्परदुःखकृत् ॥ ३१ ॥ देवे परेषामद्वेषो रागो वंशक्रमागते । सुपात्रदुःस्थयोर्दानं शान्तिर्धर्मोऽयमुत्तमः ॥ ३२ ॥ उपकारिण्यपि द्रोहः सुविश्वस्तेऽपि वश्चना । पूज्येऽपि प्रभुतादर्पः सर्प तद्वच्मि पातकम् ॥ ३३ ॥ सुखं सर्वत्र माध्यस्थ्यं दुःखं मिथ्या विजृम्भणम् । मुक्तिश्चित्तात्मनोरक्यं संसृतिवृषरागधीः ॥ ३४ ॥ नरेन्द्रोऽयमिति प्रश्नोत्तरैर्मन्त्राक्षरैरिव । अपश्यन्मुक्तमेवाग्रे भीमं न तु भुजङ्गमम् ॥ ३५ ॥ राजञ्जय जयेत्युक्त्वा मुक्त्वा पुष्पाणि मूर्धनि । सुरः कोऽपि विमानस्थः स्वस्थं भूपमथावदत् ॥ ३६ ॥ रागद्वेषोग्रकौरव्यशतग्रन्थिविसंष्ठले। . वत्स त्वमेक एवास्मद्वंशे मुक्तामणीयसे ॥ ३७ ॥ अहं स नहुषो नाम नृहंस तव पूर्वजः । तपोभिरर्जयामास वासवश्रियमुज्ज्वलाम् ॥ ३८॥ ऊढेन सर्वगन्धर्वसुपर्वपरमर्षिभिः ।। चलितोऽस्मि विमानेन शचीसंभोगसंविदा ॥ ३९ ॥ अथाशु सर्प सर्पति मयोक्तः कुम्भनो मुनिः। सर्पो भवेति मां कोपसंतप्तः शप्तवानसौ ॥ ४० ॥ अनुग्रहं मयाराद्धः स मुनिर्य तदा ददौ । स ते प्रश्नोत्तरैरेव प्रत्यक्षो मम मुक्तिदैः ॥ ४१ ॥ तद्वत्स गच्छ कार्येषु यतस्व विजयस्व च ।
इत्युदीर्य ययौ नाकलोकं नहुषनिर्जरः ॥ ४२ ॥ १. 'सर्व' ग. २. 'खमिच्छा' ग. ३. 'क्तिः शिवात्मनो' ग. ४. 'स्वयं ख.
-
Aho! Shrutgyanam