________________
३ वनपर्व - ४ सर्गः ]
बालभारतम् ।
सरीसृपो नृपोत्तंसमथोचे मर्त्यभाषया । महीभुज भुजङ्गोऽहमेतद्वननिकेतनः ॥ १७ ॥ जीवाः सर्वेऽपि मद्भक्ष्यं तान्निघ्नन्नापराधवान् । बद्धो मयैष यद्वैर मेकद्रव्यस्पृहा महत् ॥ १८ ॥ केनाप्येकेन जीवेन नाहं तृप्तः पुराभवम् । अद्यामुनातिकायेन शेष्ये कुक्षिभरिः क्षणम् ॥ १९ ॥ अमुं ददामि वा तस्मै स्वभक्ष्यं पारितोषिकम् । भवत्युत्तरबुद्धिर्मत्प्रश्नानामुत्तरेषु यः ॥ २० ॥ अवोचदथ पृथ्वीन्दुरित्थं यदि तदुच्यताम् । कुर्वे कर प्रश्न खर्वमहं तव ॥ २१ ॥ किं विषादपि पीयूषं स्यादिति भ्रान्तिदं वचः । अथ भूपं प्रति व्यालपतिरालपति स्म सः ॥ २२ ॥
2
को विप्रः किल कः शूद्रः किं मित्रं के च शत्रवः । कः सुधीः कश्च वैधेयः कः शूरः कश्च कातरः ॥ २३ ॥ किं सत्यं किमसत्यं च को धर्मः किं च पातकम् ।
२०७
किं सुखं किमु दुःखं च का मुक्तिः का च संसृतिः ॥ २४ ॥ द्विजिह्वत्वादिव प्रश्नद्वितीरिति पृच्छति ।
तस्मिन्भुजङ्गमे धीमानभ्यधत्त स्मिताननः ॥ २५ ॥ तं जानामि द्विजं नाग यस्य निष्कपटं तपः । तपोभिर्द्विजतां याति शूद्रोऽप्युन्मदसंयमः ॥ २६ ॥ विद्धि भोगीन्द्र तं शूद्रं यो रौद्रचण्डवृत्तयुक् । दुर्वृत्ता यान्ति शूद्रत्वं त्रिवेदीवेदिनोऽपि हि ॥ २७ ॥ कर्मोद्यम मित्रं प्रमादः परमो रिपुः । धीमान्भवेद्विरक्तात्मा वैधेयो नास्तिकः परः ॥ २८ ॥ स्वकीयेन्द्रियसंकेतादपि प्रविशतोऽन्तरा ।
यः शत्रून्हन्ति कामादीन्स शूर इति मे मतिः ॥ २९ ॥
१. 'मगात् ' ग. २. 'कश्च शात्रवः' ख-ग. ३. 'चारुवृत्तमुक्' ग. ४. 'पुन:' ग.
Aho ! Shrutgyanam