________________
३ वनपर्व - ३ सर्गः ]
बालभारतम् ।
3
त्वां निषेवितुमिहाहमुपेतः पाण्डुनन्दनमिदं किल जल्पन् । काननेषु मधुपीमधुरोक्तिर्व्यक्ततामथ ततान वसन्तः ॥ ३९ ॥ निश्चितं मधुदिनैः परितक्ष्य स्वल्पिताः शिशिरदीर्घरजन्यः | तलताः पतिततत्तनुखण्डानीव रेजुरुडुमण्डलपुष्पाः ॥ ४० ॥ वृत्तवल्लिवलयो मृदुभङ्गी गीतिमान्मलयवायुनटोऽयम् । मानिनीजन विडम्बननाम्नो नाटकान्मदयति स्म जगन्ति ॥ ४१ ॥ स्वं कुटुम्बमरविन्दकदम्बं लुप्तपत्रमवलोक्य सकोपः । अर्दितुं किल हिमानि हिमाद्रि प्रत्यगात्तरणिरुद्धरतेजाः ॥ ४२ ॥ कः क्षणः प्रियतमानभिसतु ध्यायिनीमिति नितान्तमसाध्वीम् । कोकिलः किल कुहूरिति वाचा भावविद्विजवरो निजगाद ॥ ४३ ॥ वीक्षितासु सरुषं कुरुवध्वा गन्धमादन विलासपरासु । स्वर्वधूषु विधुवंशभवैस्तैः प्रापि पञ्चशरपञ्चशरत्वम् ॥ ४४ ॥ यन्मधौ तरुणिमस्पृश किंचित्प्रौढिमानमतनिष्ट दिनश्रीः । निर्भरं तरणिरेष विशेषात्तत्क्रुधेव परितापमवाप || ४९ ॥ वापि गन्तरि मधौ कुसुमालीमण्डलेषु शिथिलीकृतभावाः । वल्लयः शुशुभिरे विरहाग्निज्वालिता इव विपाकपिशङ्गयः ॥ ४६ ॥ उच्छलज्जलधितुङ्गतरङ्गध्वानमङ्गलमृदङ्ग निनादः । आययावथ विजित्य वसन्तं ग्रीष्मभूविभुरुदर्यमतेजाः ॥ ४७ ॥ ग्रीष्मतापचकितः कुसुमेषुर्बाणपुष्पमधुभिः स्वगृहाणि । सिञ्चति स्म हृदयानि वधूनामन्यथा कथमिमानि हिमानि ॥ ४८ ॥ तलपात्र निहितानि पयांसि श्याममेघमहिषी कुलजानि । आपिबद्भिरभितोऽपि विवस्वन्नन्दनैरिव दिनैः समवधिं ॥ ४२ ॥ अद्भुतमणिदीधितिभीतैः क्ष्मां प्रविश्य जगतोऽथ जलौघैः । आश्रितो बिलपथान्खलु नाथः पाथसामिति दधातु समृद्धिम् ॥ १० ॥ पाटलाविच किलद्रुमपुष्पैरर्पितद्युतिनि वल्लभदत्तैः ।
नो शिरीषकुसुमैः स्वसमानश्रीपुषि द्रुपदजावपुषि श्रीः ॥ ११ ॥
२०१
१. 'नृत्त' ग. २. 'नम्रो' ग. ३. 'रिति नितान्तमसाध्वीः ' ख ग ४. 'वृद्धिम्' ख. ५. 'युषि' ख.
२६
Aho ! Shrutgyanam