________________
१९८
काव्यमाला।
श्वेतपर्वततटेषु स खेलन्नेकदा नृपतिरैक्षत कान्तिम् । द्वादशामणिदीप्तिसहस्री मण्डितामिव दिवः प्रपतन्तीम् ॥ २ ॥ व्योमकालिमपयोदतमिस्रज्योतिरिङ्गिणमशीतमयूखम् । विश्वविश्वगशक्यविलोकैः स्वप्रभावविभवैः पिदधानम् ॥ ३ ॥ विस्फुलिङ्गनिभपिङ्गपतङ्गभ्राजमानसंविधां वियदब्धौ । और्वहेतिपटलीमिव तादृङ्गीलिमच्छलजलानि पिबन्तीम् ॥ ४ ॥
(विशेषकम्) किं किमेतदिति निश्चिनुतेऽसौ यावदग्रभुवि तावदुपेतः । दीप्तिलिप्तजगदेष महेन्द्रस्यन्दनस्तडिदिव द्रुतमभ्रात् ॥ ५ ॥ स्यन्दनावनिगतेः समकालं वीक्ष्य पादपुरतोऽथ लुठन्तम् । कृष्णसर्पमिव जेतुमरातीन्पार्थमादित करेण नरेन्द्रः ॥ ६ ॥ संमदादथ हृदा परिरब्धः पार्थिवेन चिरमेष किरीटी । कृष्णया पुनरनेन समन्तादान्तरेण भुजदूरगतोऽपि ॥ ७ ॥ मन्दचन्दनरसो विरसेन्दुश्रीर्मुधाकृतसुधापरिणामः । कोऽपि संमदपैदाय तदाभूत्सोदरेषु परितः परिरम्भः ॥ ८ ॥ स्पृष्टभीमचरणं च यमाभ्यामानतं च पुरतो विनिविष्टम् । सव्यसाचिनमथ क्षितिपालः पूजितप्रहितमातलिरूचे ॥ ९ ॥ अस्मदुग्रतरपञ्चवियोगी पञ्चवह्नितपसा समसाधि ।। यत्त्वया किमपि पञ्चसमाभिः तद्वदारिकरिपञ्चमुख द्राक् ॥ १० ॥ अङ्गकान्तियमुनाजलसङ्गः स्वधुनीकृतलसद्दशनांशुः । शेखरायितकराम्बुजलक्ष्मीरभ्यधादथ सुराधिपसूनुः ॥ ११ ॥ अनितेयमजरा धनुषि ज्या वर्म विद्विषदभेद्यमलाभि । शिक्षिता च दिवि पञ्चदशास्त्री त्वत्प्रसादवशतस्त्रिदशेभ्यः ॥ १२ ॥ निष्कपुष्करमयी मयि माला सेयमुल्लसदमेयमदेन । दीयते स्म हरिणायमपायवातघातनपटुर्मुकुटश्च ॥ १३ ॥ १. 'वीर' ख. २. 'सरुचिं' ख-ग. ३. 'मदाय' क-ख.
Aho! Shrutgyanam