________________
१९६
काव्यमाला।
संस्तम्भितगतिं राज्ञामाद्रेयक्षोभितं च तम् । चक्रे यमपुरीपान्थं द्रुतमन्वेत्य मारुतिः ॥ ८५ ॥ अमी पुनः समागत्य नरनारायणाश्रमम् । श्वेताश्वदत्तसंकेताश्चतुर्वर्षीमपूरयन् ॥ ८६ ॥ ते मृगीकण्ठकण्डूभिर्मगारातिनखाङ्कुरम् । ततोऽगमन्समीपं तेराश्रमं वृषपर्वणः ॥ ८७ ॥ स्थित्वा नृपोऽत्र सप्ताहं सत्कृतो वृषपर्वणा। भास्वानिव सहस्यान्तेऽचलत्प्रत्युत्तरां दिशम् ॥ ८ ॥ ततः किरीटिसंपर्कमनोरथमिवोज्ज्वलम् । श्वेताद्रिमारुरोहाह्नि चतुर्थे पार्थपार्थिवः ॥ ८९ ॥ अथ गौरीनवोद्वाहप्रसन्नशिवसेवितम् । ते ययुः कृतमेरुश्रीसानन्दं गन्धमादनम् ॥ ९० ॥ कीरोक्तिभन्नसंदेहे पठद्बटुकमण्डले । महर्षेराष्टिसेनस्य तत्र ते तस्थुराश्रमे ॥ ९१ ॥ पञ्चवर्णदलैः पुष्पैः समीरणसमीरितैः । कृष्णाथ लोभिता भीमं प्रैषीत्तद्रहणेच्छया ॥ ९२ ॥ अथाधिरुह्य शैलाग्रमालोक्याग्रेऽलकां पुरीम् । स नादक्षोभितोदन्वदम्बुः कम्बुमवादयत् ॥ ९३ ॥ तदा तदाननं तादृक्कम्बुचुम्बितवैभवम् । मरालभ्राजिराजीवभ्रमतः शिश्रिये श्रिया ॥ ९४ ॥ त्रुट्यत्ताराततिस्त्रस्यदकोश्वस्तस्य कम्बुभूः । नादो विघटमानेन्दुकलासंधिरवर्धत ॥ ९५ ॥ नादस्तत्कम्बुभूर्भूभृद्वैहानद्धप्रतिस्वनः ।
दिशि क्वासौ बभूवेति निश्चिकाय न कश्चन ॥ ९६ ॥ १. 'शमिपतेः' क-ग. २. 'नन्दनं' ग. ३. अयं श्लोकः ख-पुस्तके त्रुटितः. ४ 'गुहोद्भूत' ग.
Aho! Shrutgyanam