________________
३वनपर्व-२सर्गः]
बालभारतम् ।
तत्रैलविलशैलाग्रवननिर्झरसंभवाम् । सुवर्णपद्मिनी रक्षोरक्षितामयमैक्षत ॥ ७३ ॥ तस्यां पद्मानि कान्तास्यश्रीसद्मानि निरीक्ष्य सः । प्रियामनोरथोऽपूरि मयेत्युत्पुलकोऽभवत् ॥ ७४ ॥ भविष्यद्वल्लभापाणिस्पर्शात्पुलकिते करे । भीमोऽजिनीं स जग्राह रक्षारक्षःक्षयक्षमः ॥ ७५ ॥ मिलद्भिः पलभुग्योधैररोधि क्रोधिभिः पुनः । उद्यद्भिर्वियदग्रं स मशकैरिव कुञ्जरः ॥ ७६ ॥ उग्रभ्रमित्वराटोपचक्राकारविडम्बिनीम् । स गदां भ्रामयामास मूर्ध्नि दैत्यभयंकरीम् ॥ ७७ ॥ तस्मिन्याति तदा तेनुः शिलावर्षाणि राक्षसाः । तान्यस्मिन्नपतन्कान्तामुक्तलीलारविन्दवत् ॥ ७८ ॥ अथोत्पातेषु जातेषु कृष्णादिष्टेन वर्त्मना । राजा घटोत्कचव्यूढस्तत्रागात्सपरिच्छदः ॥ ७९ ॥ 'विबोध्य द्वेषिरक्षांसि भीमं भूमिपतिः स्वयम् । समाश्लिष्यन्नसंतप्तं चक्रे रविमिवाम्बुदः॥ ८० ॥ कल्याणकदलीखण्डचारुतामोहितास्ततः । तत्रैवास्थुरमी राज्यसंपद्यपि निरादराः ॥ ८१ ॥ शंसन्भास्करशिष्यं खं जटाशाली जटासुरः । विप्रवेषी छलान्वेषी तमुपेत्येह तस्थिवान् ॥ ८२ ॥ घटोत्कचान्विते भीमे मृगयायां गतेऽन्यदा । . भुजद्वयवियुक्तेव रेजे यौधिष्ठिरी चमूः ॥ ८३ ॥ ऍधिष्यन्निव कोपाग्नेः प्राग्घृत्वास्त्राणि मायया। क्षणेऽस्मिन्पाण्डवान्कृष्णायुताञ्ज। जटासुरः ॥ ८४ ||
१. 'तामब्जिनी' ग. २. 'प्रबोध्य' ख-ग. ३. 'वात्सु' ख. ४. 'एधिष्यभीमकोपानेः' ख.
Aho! Shrutgyanam