________________
१९४
काव्यमाला।
तत्फूत्कारबलात्तदा स्फुटितवत्यद्रीन्द्रवृन्दे गुहा
विद्धे व्योमनि तत्तनूरुहमुखैश्छिद्राणि कक्षच्छलात् ॥ १२ ॥ कृतं तत्तेजोभिः किमपि रथपृष्ठे प्रसृमरं
स्वबिम्बस्य छायावलयमवलोक्य द्युतिपतिः । त्रसन्राहुभ्रान्त्या समुपहसितो दूरगतिना
मृगाङ्केण स्वाभिः सह सहचरीभिः खलु तदा ॥ ६३ ॥ कर्णनासाननच्छिद्रैः पञ्चग्रासीकृताम्बरः । स बभौ ब्रह्मचारीन्द्रः कपीन्द्रो मेहतां मुदे ॥ ६४ ॥ अदर्शि दर्शनीयं ते रूपं कपिकुलोत्तम । भाति यद्वर्णने दीना मुनीनामपि कापि वाक् ॥६५॥ मानहीनस्तवाकारप्रासादः वर्धनीध्वजः । तमेकादशरुद्र द्राग्मुञ्च चञ्च सतां हृदि ॥ ६६ ॥ कौन्तेयमिति जल्पन्तं द्रागल्पितवपुः कपिः । आलिलिङ्ग च सानन्दबाष्पो मूर्ध्नि चुचुम्ब च ॥ ६७ ॥ ऊचे च त्वमभीतो मद्रूपं भीतेन्द्रमैक्षथाः । उत्तारणीयमात्मानं त्वद्धैर्यस्योद॑धेर्मुदा ॥ ६८ ॥ अद्यापि सिंहनादस्ते मन्नादेन विमिश्रितः । भविता वैरिमर्माविद्विषलिप्तशरो यथा ॥ १९॥ स्वयं रणक्षणे स्फूर्जन्नर्जुनस्यन्दनध्वजे । करिष्ये बाढफूत्कारैर्गतबोधान्विरोधिनः ॥ ७० ॥ इत्युक्त्वास्मिन्नदृश्यत्वं हनूमति गते सति । भीमस्याभूत्तदा दुःखमोदरससंकरः ॥ ७१ ॥ ततो निशातधीः शातकुम्भरम्भावनावनौ ।
हेमपद्मनदीयोगि सोऽगात्सौगन्धिकं वनम् ॥ ७२ ॥ १. 'तद्भुक्कार' ख; 'तदुत्कार' ग. २. 'मरुतां' ग. ३. 'साग्' क. ४. 'त्ववीर्यस्या' ग. ५. 'दधे मुदा' ग. ६. 'बूक्कारै' ख; 'बूत्कार' ग. ७. 'स्वमोदरस' ख.
Aho! Shrutgyanam