________________
३ वनपर्व -२ सर्गः ]
बालभारतम् ।
प्राचीमञ्चति चण्डरोचिषि चिरं प्राप्ते प्रतीचीं प्रति प्रातः शीतकरे करैरुभयतो गाङ्गेयभङ्गोज्ज्वलः । हैमं कुण्डलमेकतः कलयतः कापालमप्यन्यतो भूतेशस्य वधूविभक्तवपुषः सैष श्रियं पुष्यति ॥ ३१ ॥ त्वद्वन्धुबन्धुरतपोवशदर्शितात्मा
जामातृसंगमसुखानि चिरादेवाप ।
अभ्यापतन्तमयमित्यधुना भवन्तं
लोलाभिराह्वयति शाखिशिखाङ्गुलीभिः ॥ ३२ ॥
इति लोमशोक्तिभिरयं नृपतिः कुतुकी विलोकयितुमेनमगम् । अकृत द्रुतामपि गति बत यां श्रदधायि सापि वरलापतिभिः ॥ ३३ ॥ पुरश्चरद्भीमपदान्तघातसमीकृतोरुस्थैपुटोपलेन ।
पथारुरोहाथ धराधरं तं घराघवोऽन्यैरनुगम्यमानः ॥ ३४ ॥ गन्धमादनवनान्तयायिनो वायुवर्धितरजोऽम्बुवृष्टिजम् ।
घ्नन्ति विघ्नगकुञ्ज पुञ्जिता ध्यानशुद्धशुचिचेतसः स्म ते ॥ ३५ ॥ आकुले द्विजकुले पथि वध्वां पातभाजि नकुलेन धृतायाम् 1 अस्मरच्च मनसाथ मरुद्भूराजगाम च घटोत्कचवीरः ॥ ३६ ॥ व्योमाङ्गणाग्रसर लोमशदर्शितेन
मार्गेण मेघपरिरब्धतडिल्लताभाः । ऊढा घटोत्कच चमूसुभटोच्चयेन शैलेन्द्रमूर्धनि ययुर्वदरीवनं ते ॥ ३७ ॥ पतिभ्यो निर्विशेषायाः कृष्णायाः सुखदुःखयोः । सत्याः स्नानेन गङ्गा स्वं तत्र पुण्यममन्यत ॥ ३८ ॥ कृष्णा तत्र कृतानल्पाकल्पा विन्दुसरोम्बुजैः । मुदा मुकुरयामास कैलासस्य गिरेः शिला ॥ ३९ ॥
१९१
१. ‘परं' ख. २. 'दवाप्य' ख. ३. 'स्वपुटो' ख-ग. ४. 'मथ' ख-ग. ३. 'वना - न्तम्' ख.
Aho ! Shrutgyanam