________________
१९०
काव्यमाला।
सारङ्गाणामधिपतिरपि प्रत्यहं हन्ति जातं ___ मातङ्गानां न हि गुरुरवं संनिधावप्यशङ्कम् ॥ २४ ॥ केरिपरिणतदन्ताभ्याससंभग्नशृङ्ग
च्युतमणिचयमिश्ररस्य पूरैर्नदीनाम् । अपि मृगमृगनाभिभ्राजमानान्तरालै
रुदधिरजनि रत्नस्थानकं मेचकश्च ॥ २५ ॥ धूमायमान इव लोलपयोदजालैः
कीलानुविद्ध इव रत्नशिखासमूहैः । स्फारस्फुलिङ्ग इव कान्तिपिशङ्गपक्षि.
व्यूहैरयं वियदुदन्वति वाडवाग्निः ॥ २६ ॥ अस्मिन्महीभृति महाकटकाभिरामे __ तुङ्गा विभान्ति शिखराः किल धीरवीराः । मौलिस्थितद्रुममिषेण धृतातपत्राः
क्रीडद्भुजङ्गकपटप्रचलत्कृपाणाः ॥ २७ ॥ गोप्रसङ्गोज्ज्वलच्छायो हरिच्छविपरिच्छदः । एष भूमीधैरो भाति जगत्रितयवस्तुवत् ॥ २८ ॥
(अनन्तार्थोऽयं श्लोकः) लसन्नीलग्रावच्छविभरविनीलेऽम्बरतले
सदा वर्षाहर्षादिह तटवनेषु क्षितिभृतः । समीरप्राम्भारप्रहतनिपतन्निर्झरकणै
मयूरा नृत्यन्ति स्फुरति परितश्चातकचयः ॥ २९ ॥ चूलाचञ्चन्मणिगणविभाकृष्टकोदण्डकेलिः
क्रीडालोलस्फुरदुरुतडिदम्भदम्भोलिशोभी। कालेनाब्दच्छलनवर्भवत्पक्षपक्षोऽयमद्रि
जैत्रं शत्रु हरिमिव पराजित्य जग्राह शस्त्रे ॥ ३० ॥ १. 'परिणतकरिदन्ता' ख. २. 'शिरः' ग. ३. 'धवों क. ४. 'भवत्यक्ष्यदक्षो' ख.
Aho! Shrutgyanam