________________
१९२
काव्यमाला।
सप्तमेऽहनि कैलाशतटे स्वमुखबिम्बवत् । पूर्वोत्तरमुरुत्कृष्ट कृष्णा हेमाजमैक्षत ॥ ४० ॥ अब्जानि मह्यमीडेंशि यच्छेति प्रेरितस्तया । मारुतिः पितृभक्त्येव मरुतः संमुखोऽचलत् ॥ ४१ ॥ गन्धमादनमारुह्य मुह्यद्गन्धर्वगुह्यकम् । सशङ्खनादं नादं स चके चकितदिग्गजम् ॥ ४२ ॥ वसन्निह वने हेमकदलीखण्डमण्डने । तवानजाग्रदुत्तानसंभ्रमो हनुमानभूत् ।। ४३ ॥ पुंच्छास्फोटेन स पविप्रहारं स्मारयन्गिरिम् । उत्तस्थौ कुम्भकर्णादीन्नाकस्थानपि कम्पयन् ॥ ४४ ॥ मत्त्वा यान्तमथ ज्ञानाद्वान्धवं गान्धवाहिना । तस्थौ तस्य प्रियं कर्तुं संकटे पथि सुप्तवत् ॥ ४५ ॥ खिन्नो भीमस्तु संरम्भाद्धेमरम्भावनाध्वनि । क्वापि तापं सरस्यौज्झत्पानस्नानविपेन्द्रवत् ॥ ४६ ॥ गच्छन्पुरः कपीन्द्रं तमथ रुद्धमहापथम् । स हेमाद्रिमिवाद्रीन्द्रं सेवायातमलोकत ॥ १७ ॥ अपसर्पत्वसौ मार्गादिति मारुतिरुन्नदन् । तूर्ण घूर्णन्पतन्मुह्यन्क्लीवजीवमगं व्यधात् ।। ४८ ॥ अथोन्मील्य दृशौ किंचित्किचिदाकुञ्चय कन्धराम् । मन्दं मन्दमिवोवाच वानरोऽयं नरोक्तिभिः ॥ ४९ ।। महात्मन इवाकारस्तवाचारस्तु नीचवत् । यथा वृथा व्यथापात्रं जीवाञ्जनयसि स्वनैः ॥ ५० ॥ निद्रागुणक्षणक्षीणरोगाभोगपृथुव्यथम् । किं मां जागरयन्मूढ कृतवान्सुकृतं भवान् ॥ ११ ॥
१. 'पुच्छच्छोटेन' ख; 'पुच्छाच्छोटेन' ग. २. 'तस्थों' ख-ग. ३. 'सुप्तवान्' क. ४. 'स्तव वाच' क. ५. 'रोगभोग' ख-ग. ६. 'महतू' ख.
Aho ! Shrutgyanam