________________
३वनपर्व-१सर्गः]
बालभारतम् ।
१८५
उशीनरस्याश्रममत्र तस्य दत्त्वामिषं स्वं शरणागतं यः। वहिं कपोताकृतिनं ररक्ष शक्राय श्येनादृतमायिनेथ ॥ ८९ ॥ एण्या विभाण्डाच्युतवीर्यमत्तं तस्यामृषिशृङ्ग इति प्रयज्ञे । नीतः स्वदेशेऽप्सरसा विलोभ्य वृष्ट्यार्थिना लोमपदेन राज्ञा ॥ ९० ॥ पुत्री प्रदत्ता ऋषये नृपेण भीतो मरुत्त्वान्विततान वृष्टिम् । तस्योटनं पश्य तमोविभूतेः शिष्यवृतं चाध्ययनप्रगल्भैः ॥ ९१ ॥ अथागतोऽसौ च्यवनाश्रमान्ते श्रीलोमशेनाजगदे पृथाभूः । पुरा सुकन्यास्य मुनेश्च नेत्रं सर्यातिपुत्रीरभिदत्कुशेन ॥ ९२ ॥ महर्षयेऽमै प्रददौ सुकन्यां प्रसाद्य सर्यातिरगादगारे । नासत्यदसौ(?) ह्रदमाविगाह्य चक्रात(?) एनं निजरूपसाम्यम् ॥१३॥ ताभ्यामदादध्वरदेवभागं तुष्टो मुनिर्मन्युवता प्रनुन्नम् । जिघांसुकामेन पुरंदरेण पतत्सु कुण्ठं कुलिशं विजिग्ये ॥ ९४ ॥ विलोकयनां वसति सुपुण्यां मांधातृराजर्षिवरस्य धार्मे । पुत्रेष्टिसंभूतजलातिपानताताङ्गसंभेदविनिर्गतस्य ॥ ९५ ॥ तां यज्ञभूमि व्रज सोमकस्य राज्ञोऽथ यस्यां सुतमानिहत्य । एकं सुतान्प्राप बहून्स यज्ञे यो याजकं खं निरयादरक्षत् ॥ ९६ ॥ अथापरं कौरव कुम्भयोनेरिलाश्रमं विद्धि समागमेऽस्य । पयांसि कालुष्यमपि त्यजन्ति शुचिर्नरः स्याच किमत्र चित्रम् ॥९७॥ विधाय वातापिमजाकृतिं खं पुत्रं विपच्य द्विजपुंगवेभ्यः । अभोजयच्चेल्वलदेववैरिः कुक्षि विनिर्भिद्य तथैति सासुः ॥ ९८ ॥ अजारिवातापिरनेन सोऽपि विन्ध्यस्य भास्वद्गतिरोधबुद्धेः । वृद्धिः सुरेशादिभिरार्थतेन भूयोऽगमच्छद्मगिरा निषिद्धाः ॥ ९९ ॥ सुरैविरञ्चिप्रहितैर्दधीचेविधाय वजं बहु याचितस्य ।। खण्डास्थिना दुर्जयकालिकेया विनाशिता वज्रधरेण पूर्वम् ॥ १० ॥ लीना भयात्केचन सिन्धुराजे तदार्थिनोऽसावपिबत्पयोधिम् । नीता विनाशं रिपवोऽपि देवैरेवंविधः कुम्भभवो महर्षिः ॥ १०१ ॥
२४
Aho! Shrutgyanam