________________
काव्यमाला।
अत्राश्रमं पश्य कहोडनाष्टावक्रस्य यो गर्भगतोऽपि पैञ्यम् । सर्वत्रियामाध्ययनं निषेधन्वक्रत्वमापाथ पितुः प्रकोपात् ॥ ७६ ॥ बन्दीकृतं खं जनकं निशम्य बालोऽपि वादे मिथिलेशयज्ञे । प्रविश्य यज्ञायतनं प्रवादैर्बन्दि निजग्राह विवाददक्षम् ॥ ७७ ॥ अथाश्रमं पुण्यतमं प्रपश्य कौन्तेय रैभ्यस्य सहानुनश्च । पुरा भरद्वाजसुतं यवक्री ज्ञात्वामरत्वं भवितुं तपःस्थम् ।। ७८ ॥ शक्रस्तदेत्य द्विजवेषधारी चिक्षेप रेणुं सुरनिम्नगायाम् । किमेतदित्यालपतं(2) महर्षि सेतुं विधे(धा)मीति जगाद वाचम्॥७९॥
(युग्मम्) नैषा मनीषा तव विप्र साध्वी प्राहेतिवाचि स मुनौ सुरेशः । तथैव जानीह्यमरत्ववाञ्छां वरानथोऽन्याँस्त्वमतो वृणीष्व ॥ ८० ॥ कामान्बहून्वासवतोऽभिगम्य निवेदयामास पितुः पुरस्तात् । रैभ्याच्च पित्राभिहितो यवक्री शङ्कयं सदा वत्स महर्षितोऽस्मात्॥८१॥ अथैकदा रैम्यवधू यवक्रीरधर्षयत्कामवशंवदात्मा । कृत्या प्रयुक्तार्थविदा जघान रैम्येन नासादितरक्षणं तम् ॥ ८२ ॥ ज्ञात्वा भरद्वाजमुनिः सुतान्तं रैभ्यं शशापाथ विवेश वह्निम् । परावसू रैभ्यसुतो गृहेऽगाजघान तातं मृगधीनिशान्ते ॥ ८३ ॥ अर्चावसुं भ्रातरमाह कष्टी सुद्युम्नभूपस्य मखस्थमेत्य ।। तातान्तकोऽहं मुनिशापनुन्नो जातस्त्वयाघाच्च विमोचनीयः ॥ ८४ ॥ ज्येष्ठं पदे स्वे विनिवेश्य तीर्थस्नानैर्गताघोऽग्रजमाचकार । भूयो मखक्ष्मागत एव विप्रैर्धात्रा निषिद्धो गुरुहेत्युदीर्य ॥ ८५ ॥ अचीवसुर्तीतुरघं प्रजल्पन्वरैः सुरेन्द्रादिभिरचितोऽसौ। वत्रे भरद्वाजऋषेः स सूनोः पितुश्च रैभ्यस्य च जीवितव्यम् ॥ ८६ ॥ अर्चावसोः पुण्यचयेन जाता लब्धासवोऽमी मुनयस्त्रयोऽत्र । रैभ्यालयेऽतो जपदानहोमैर्जनो जनुस्थं कलुषं जहाति ॥ ८७ ॥ निकेतनं पश्यत कापिलेयं यतो निदग्धाः सगरस्य पुत्राः। गङ्गां समानीय भगीरथेन वंश्येन नीता हरिपादपद्मम् ॥ ८ ॥
. Aho! Shrutgyanam