________________
३वनपर्व-१सर्गः] बालभारतम् ।
१८३ जित्वा दवाग्नीनिजधर्मपुत्रद्रुमद्रुहः पश्य मुदाम्बुदानाम् । गर्जाट्टहासैर्हसतां लसन्ति दन्ता इवैता धवला बलाकाः ॥ १४ ॥ नायं पयोदोऽर्जुन एष नीलद्युतिर्दिवोऽभ्येति तडित्किरीटी। धारापदेशान्नृप दर्शयंस्तेभ्यस्तेषुपातान्कलितेन्द्रचापः ॥ १५ ॥ निरीक्ष्य नीराणि पतन्ति गर्भाधानस्य बीजानि भुजङ्गमीनाम् । विभाव्य संभाविसुभिक्षमेते नदन्ति नृत्यन्ति च नीलकण्ठाः ।। ६६ ॥ सुजातिभाजः समयस्य राजन्नमुष्य पुत्रीः सरितो रसाढ्याः । समुद्वहन्तस्त्रपया महान्तः पयोधयः संप्रति संकुचन्ति ॥ १७ ॥ वियोगिनीहृद्दलदारणाय दधाति कामः क्रकचान्निकामम् । उत्कण्ठकान्यागतभृङ्गसङ्गनीलस्फुटत्केतककैतवेन ॥ ६८ ॥ गूढाङ्यः पङ्कपरम्परासु श्यामाः स्वरामाविरहातिदुःखैः । फूत्कारिणो मार्गवशेन वक्रं सर्पन्ति सर्पा इव पश्य पान्थाः ॥ ६९ ॥ कृतां पयोदैः सरितं स्मराज्ञारेखामिवोल्लचितुमप्यशक्ताः । प्राणान्परित्याजयितुं नदद्भिर्धता इवैते पथि पार्थ पान्थाः ॥ ७० ॥ पान्थस्य दुःखं नैलिनस्य नाशं जलस्य मालिन्यमिनस्य लोपम् । पश्याम मा मेति विशुद्धपक्षाः प्रागेव जग्मुर्नुप राजहंसाः ॥ ७१॥ सुप्तोऽधुना विष्णुरितीव तीव्रमयूखपीयूषमयूखबिम्बे । तल्लोचने रोचयतो न रोचिश्चयेन विश्वं तिमिरातमेतत् ।। ७२ ॥ स विश्वनाथः स्वपिति स्म पार्थ तीर्थानि सर्वाण्यपि यन्मयानि । इहैव तत्संप्रति तिष्ठ तस्मिन्विद्राणनिद्रे कुरु तीर्थयात्राम् ॥ ७३ ॥ इत्युक्तिभिधौम्यपुरोहितस्य नृपश्चतुर्मासमुवास तत्र । मठे द्विजास्यादशृणोच वृत्तं राजर्षिराजस्य गयस्य विश्वम् ॥ ७४ ।। [कर्णानुजः पुण्यतमानि पश्यन्देवर्षिराजर्षिसमाश्रितानि । तीर्थान्यथो वित्तविशारदेन श्रीलोमशेनाभिदधेऽर्थविज्ञः ॥ ७५ ॥
१. 'उत्कण्ठका' क-ख. २. 'निलयस्य' ख. ३. 'हन्त' ख. ४. धनुश्चिह्नान्तर्गताः ७५-१०१ श्लोकाः केवलं क-पुस्तकाधारेण लिखिताः.
Aho! Shrutgyanam