________________
(अंत्र शिरोक्ष्णामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गत्वादेकत्वं प्राप्नोति । )
अरुन्धतीव कान्तास्य पत्युराज्ञामरुन्धती ।
अभूदभिधया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ ४० ॥ आदिमः प्रशममन्दिरं महादेव इत्यभिधया तदङ्गभूः । येन पाणिनिहितेन पङ्कजेनेव तुष्यति परं सरस्वती ॥ ४१ ॥ सोमेश्वरदेव इति क्षितिदेवस्यास्य बन्धुरनुजन्मा | अनि कनिष्ठस्तस्य भ्राता ख्यातान्वयो विजयः ॥ ४२ ॥ तैस्त्रिभिः प्रथममध्यमोत्तमैः स्वे पदे च पुरुषैर्व्यवस्थितैः । शब्दशास्त्रमिव गोत्रमुच्चकैः सत्क्रियं समजनिष्ट विष्टपे ॥ ४३ ॥ सोमेश्वर देवकवेरवेत्य लोकंपूणं गुणग्रामम् । हेरिहरसुभटप्रभृतिभिरभिहितमेवं कविप्रवरैः ॥ ४४ ॥ श्री सोमेश्वरदेवस्य कवितुः सवितुश्च गौः । सटणाभ्यवहारस्य निरासेऽपि रसप्रदा ॥ ४५ ॥ वाग्देवतावतंसस्य कवेः श्री सोमशर्मणः । धुनोति विबुधान्सूक्तिः साहित्याम्भोनिधेः सुधा ॥ ४६ ॥ तव वक्रं शतपत्रं सद्वर्ण सर्वशास्त्रसंपूर्णम् । अवतु निजं पुस्तकमिव सोमेश्वरदेव वाग्देवी ॥ ४७ ॥ वसिष्ठा निष्ठायाः पदमिति जगत्यस्ति पटहः प्रकृष्टास्त्वषामप्यजनिषत मुञ्जप्रभृतयः ।
कुले जातोऽप्येषां शतधृतिदुहित्रा पुनरयं स्वयं पुत्रीच नवकविगुणप्रीणितहृदा ॥ ४८ ॥ काव्येन नव्यपदपाकरसास्पदेन यामार्धमात्रघटितेन च नाटकेन ।
श्री भीमभूमिपतिसंसदि सभ्यलोकमस्तोकसंमदवशंवदमादधे यः ॥ ४९ ॥ कवीन्द्रपदवीस्पृहामद्दह तेऽपि तन्वन्ति य
द्वचः क्रकचकर्कशं प्रथयति व्यथां कर्णयोः ।
कविः स विरलः पुनर्भुवि भवादृशो दृश्यते सुधाभिरभिषेचनं रचयतीव यः सूक्तिभिः ॥ ५० ॥
१. अयं पाठष्टिप्पणीस्थो ग्रन्थमध्ये प्रक्षिप्तो भवेत. २. 'अयं श्रीहर्षवंश्यो हरिहरो वीरधवलराजसमीपे नैषधपुस्तकं प्रथमं वस्तुपालेऽमात्ये सत्यानयत् - इति हरिहरप्रबन्धे प्रबन्धकोशे स्फुटम् ३. भीमदेवराज्यम् - वि० सं० १२३५-९८. एतत्पुत्रत्रिभुवनपालराज्यम् - वि० सं० १२९८ - १३००.
Aho ! Shrutgyanam