________________
ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता-'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ।' अमरेणोक्तम्
मन्दश्छन्दसि कोऽपि कोऽपि विकलः सालंकृतौ व्याकृता
वर्थे कोऽपि वृथाश्रमो रसनिधावन्धश्च कोऽप्यध्वनि । वक्रान्तविहरद्विरश्चितनयामञ्जीरमञ्जुस्वर___ स्पर्धाबन्धुभिरेक एव कवते काव्यैः कुमारात्मजः ॥५१॥ [वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवं
श्रीप्रेलादनमन्तरेण विरतं विश्वोपकारव्रतम् । दृष्ट्वा तद्वयमत्र मन्त्रिमुकुटे.श्रीवस्तुपाले कवि.
स्तत्कीर्तिस्तुतिकैतवादिति मुदामुद्रारमारब्धवान् ॥ ५२ ॥ प्राग्वाटान्वयवारिधौ विधुरिव श्रीचण्डपः प्रागभू
त्संभूतोऽद्भुतसत्यशौचसदनं चण्डप्रसादस्ततः। सोमस्तत्तनयो नयोज्ज्वलमतिस्तस्याश्वराजः सुतः
पूतात्माथ तदङ्गभूः सुकृतभूः श्रीवस्तुपालोऽभवत् ॥ ५३ ॥ उत्फुल्लमल्लीप्रतिमल्लकीर्तिः श्रीमल्लदेवोऽभवदप्रजन्मा। बभूव तस्यावरजश्व तेजःपालाभिधानः सचिवप्रधानम् ॥ ५४॥ श्रीवस्तुपालः स चिरायुरस्तु दिशां प्रकाशं दिशते सदा यः । कर्पूरकिर्मीरितकेरलश्रीरदावदातद्युतिभिर्यशोभिः ॥ ५५ ॥ क्षीणे चक्षुषि भेषजं भगवती कालीश्वरी देहिनां
देहे श्वित्रविचित्रभाजि शरणं श्रीवैद्यनाथः प्रभुः । संसारज्वरजर्जरे हृदि सदा विष्णु विष्णुर्मुदे
दौर्गत्ये च जिघांसिते गतिरसौ श्रीवस्तुपालः पुनः ॥ ५६ ॥ न वदति परुषा रुषापि वाचः स्पृशति परस्य न मर्म नर्मणापि । विरमति मतिमानमान्यचन्द्रः क्वचन च नार्थिकदर्थितोऽपि दानात् ॥ ५७॥ घनमनवरतक्षितीन्द्रसेवाश्रमसमवाप्तमयत्नतोऽपि दत्ते।
अपरमपि परोपकारकं यद्विमृशति वस्तु तदेव वस्तुपालः ।। ५८॥ १. धनुचिहान्तर्गताः श्लोकाः डॉक्टर-पीटर्-पीटर्सन-महाशयप्रेषिते मथुरास्थपुस्तके संवत् १६७८ लिखिते नोपलभ्यन्ते, किंतु डॉक्टर-रामकृष्ण-गोपाल-भाण्डारकर-महाशयप्रकाशित १८८३-८४ ख्रिस्तवत्सरीय रिपोर्ट'तो लिखिताः.२. अयं च प्रहादनःसोमेश्वरदेवपितुः कुमारस्य गुरुः. तथाहि Indian Antiquary-Vol. XI. p. 221-22 मुद्रितप्रशस्ति:-'xxx संवत् १२६५ वर्षे वैशाख शु १५भौमे चौ. लुक्योद्धरणपरमभट्टारकमहाराजाधिराजश्रीमद्भीमदेवप्रवर्धमानविजयिराज्येxxxषड्दर्शनावलम्बनस्तम्भसकलकलाकोविदकुमारगुरुश्रीप्रह्लादनदेवे यौवराज्ये सति' इति.
Aho! Shrutgyanam