________________
२ सभापर्व - ९ सर्गः ]
बालभारतम् ।
सुकुमारतया न याश्रयद्धसृणं मौक्तिकमण्डलानि च । रविधाम सहिष्यते कथं भवती खेदलवाँश्च सा वने ॥ ८८ ॥ जगदेकजतोऽपि यान्त्यमी सति सत्यव्रतपालिनो वनम् । प्रतिपालय मामिहैकिकां किमु वत्से त्वमपीति मुञ्चसि ॥ ८९ ॥ भवदीयमुखेन्दुना विना विकसत्कोमलकान्तिनामुना ।
कुल व कुलककैरवप्रतिमं मेऽक्षि विकाशमेष्यति ॥ ९० ॥ यदि सत्यमपालि सोदरैर्नियतं पालितमेव तत्त्वया । त्वमिहैव कृतस्थितिः शुचः सहदेव प्रियपुत्र पाहि माम् ॥ ९१ ॥ सकृपः कृतदुर्नयेऽप्यरौ विजयिन्यः समभूः सभाभुवि । अकृपः स कथं स्थितोऽधुना रुदतीं मां न दृशापि पश्यसि ॥ ९२ ॥ जतुमन्दिरतो विकृष्य मां निजपृष्ठेन वहन्नहर्निशम् । किमु भीम गतस्तदा खिदां यदिदानीं रुदतीं विमुञ्चसि ॥ ९३ ॥ निजमौलिमणीगणोन्मृजा शुचिशोभेषु नमन्नहर्मुखे । मम पादनखेषु को युधिष्ठिर कर्ता वदनावलोकनम् ॥ ९४ ॥ उपलानपि सा विलापिनीत्यवशारोदेयदत्र नाद्भुतम् । यदशोच्यत तैस्तदा सुयोधनदुःशासनकर्णसौबलैः ॥ ९९ ॥ अधिपाः किमु यान्त्यमी हहा वनभूमीमिति नागरो जनः । सकलोऽपि रुरोद रोदसीदरदूरोदरपूरणादरः ॥ ९६ ॥
माहं दृशा कुपितया धृतराष्ट्रदाहपापाय भूवमिति दम्भगृहीतराज्यः ।
इत्येष चीरपिहितास्यविभासिभूत
जीमूतगोपितविधुः प्रचचार राजा ॥ ९७ ॥
कालेन कालकवलीकृतवैरवार्तमेतेन कौरवकुलं कलहोत्कटेन ।
१७९
१. ' नकुलैककुलीनकैरव' क. २. 'मदत्त' ख. ३. 'विभासि' ख; 'विभाति' ग.
Aho ! Shrutgyanam