________________
१७६
काव्यमाला |
विस्तार्य बाहुयुगमित्यगमन्निकामकोपारुणोरुनयनः पवनाङ्गजन्मा ॥ ९८ ॥
एवं किरञ्शरकदम्बकमाम्बिकेयसेनासु दुर्धरधनुर्धरधैर्यरोधम् । युद्धे करोम्यहमिति प्रववर्ष गच्छ
विष्वक्शतऋतुसुतः सिकतावितानम् ॥ ९९ ॥ आच्छिद्य मेमुरदुरोदरदम्भजृम्भमाणप्रभावबलिनं युधि सौबलेयम् । स्यादुक्तमस्य विशदत्वमिति स्वमास्यं
लिहवा मषीभिरगमत्सहदेववीरः ॥ १०० ॥ रङ्गत्यरातिनिकरे शिरमङ्गमङ्ग
शृङ्गारितं भुजभृतां निभृतं न भाति । इत्यङ्गनाजनमनोरमरूपरोचि
धूलीविपशबलो नकुलो जगाम ॥ १०१ ॥ इत्यातुरं विशतु हस्तिपुरं पुरंध्री
वर्गो दिनैः कतिपयैरपि कौरवाणाम् । इत्याललाप बहुशापमबद्धकेशा
सा पाण्डुपुत्रसुदती रुदती प्रवासे ॥ १०२ ॥ अल्पैरहोभिरिति कौरवकैरवाक्ष्यो
गीतानि बिभ्रतु शपन्निति कोपशोणः । धौम्यो जगौ परिपतन्पथि याम्यरौद्र
सामानि नैर्ऋतदिगुद्धृतदर्भपाणिः ॥ १०३ ॥ उत्पाताः शतशोऽभवन्पुरि समागम्य स्वयं नारदो वंशोच्छेदमथादिशत्कुरुपतेश्चिन्ताज्वलच्चेतसः । तद्भीत्यैव समागतेषु शरणं दुर्योधनाद्येषु च
द्रोणो वीररसैकवाधिरभयं दत्त्वासृजन्मङ्गलम् ॥ १०४ ॥
१. 'स्याद्युक्त' ग.
• Aho ! Shrutgyanam