________________
१७४
काव्यमाला।
तूर्णमित्ययमनुज्ञया पितुः स्वं पुरं प्रति चचाल धर्मसूः । सोदरैः सह मुहुर्मुहुर्महामर्षनिश्वसितहर्षितायुधैः ॥ ७६ ।। रोषदोषकलुषाः प्रयान्त्यमी तात मृत्युरयमात्मनः कुले । तैः समं समरकर्म दुष्करं द्यूतमेतदिह वर्ततां पुनः ॥ ७७ ॥ द्वादशैव शरदो वनावनी ते व्रजन्त्वजिनवाससो जिताः । खञ्जना इव शुचौ त्रयोदशे गुप्तमेव विचरन्तु वत्सरे ॥ ७८ ॥ इत्यजेयसमरो भवामि तैादशाब्दबलबबलोच्चयः । एवमङ्गजगिरा कुरूद्वहो धर्मनन्दनमजूहवत्पुनः ॥ ७९ ॥
(विशेषकम्) क्षत्रधर्ममधिकृत्य धर्मसूर्यद्भविष्यहृदयः सभां गतः । निर्जितः शकुनिना दुरोदरे सोदरैः सह वनाय चेलिवान् ॥ ८ ॥ दत्तराज्यविभवः सुयोधने कृत्तिचीवरधरो युधिष्ठिरः । शैलकाननविलासमानसः शंकरश्रियमशिश्रियत्तदा ॥ ८१ ॥ पाण्डवाननुयतीमथावदद्रौपदीमिति सुयोधनानुजः । मुञ्च पञ्च दयितानकिंचनानेकमेव वृणु कौरवेश्वरम् ॥ ८२ ॥ पावनिस्तमवदच्चतुर्दशे वत्सरे निबिडमत्सरेरितः । क्षुण्णकौरवशतार्पितक्रमः कौरवेशमुकुटे नटाम्यहम् ॥ ८३ ॥ कृत्तिवेष्टितवपुः किमत्र गौौरयं वदति काननोचितः । एवमुद्गिरि सुयोधनानुजेऽहासि कर्णशकुनिक्षितीश्वरैः ॥ ८४ ॥ हन्तुमुग्रतरमैन्तुकारिणः कर्णसौबलकशेषभूपतीन् । प्रत्यजानत धृतक्रुधस्त्रयस्तेऽपि संसदि वृकोदरानुजाः ॥ ८५ ॥ वीक्ष्य कानपि विनम्य कानपि स्वान्तचिन्तिततदङ्गमङ्गलान् । साग्रहस्य विदुरस्य मन्दिरे ते विमुच्य जननीमथाचलन् ॥ ८६ ॥ अभिवाद्य पदद्वयं वधूं चलितां कृच्छ्रमथावदत्पृथा । कुसुमास्तरवृन्तभीरु ते भविताङ्गं सति कर्करातिथिः ॥ ८७ ।।
१. 'पूर्णा' क. २. 'मन्त्र' क. ३. 'कृत्न' क.
Aho! Shrutgyanam