________________
२सभापर्व-५सर्गः] बालभारतम् ।
१७३ ज्येष्ठस्य बन्धोर्दयिता स्वसेव मातेव वन्द्यैव यथा तथास्तु । सतीशतस्तुत्यपदां सदोऽन्तरिमां किमित्थं तु वदस्यबुद्धे ॥ ६३ ॥ त्वं तेजसा खेन सतीमयेन वत्से जगद्भमयितुं समर्था । न दुर्नयेऽस्मिन्नपि कोपनासि तुष्टोऽस्मि पाञ्चालि वरं वृणीष्व ॥ ६४ ॥ अथावदत्पाण्डवधर्मपत्नी तत्र क्रतौ भूमिभुजः समस्ताः । यस्या ययुः कर्मसु किंकरत्वमकिंकरः सोऽस्तु तपस्तनूजः ॥ ६५ ॥ वृणु द्वितीयं वरमित्यमुत्र गुरौ पुनर्जल्पति सा जजल्प । अमी महास्त्रा रथिनः परेऽपि भवन्त्वदासा नृप पाण्डुपुत्राः ॥ ६६ ॥ निमज्जतामापदि पाण्डवानामसौ भृशं नौरजनिष्ट कृष्णा । इत्युक्तयः सभ्यजनस्य भीमक्रोधकृशानोर्दधुरिन्धनत्वम् ॥ ६७ ॥ स्त्री नौः किमस्मासु विपत्पयोधि वयं तरामो भुजलीलयैव । एष द्विषो हन्मि रुषेति जल्पन्गदामुदस्योत्थित एव भीमः ॥ ६८ ॥ तं वीक्ष्य दुर्योधनकर्णदुःशासनादिविद्वेषिषु कम्पितेषु । धृत्वा भुजे धर्मसुतस्तमेनं वधान्तरायं रचयांचकार ॥ ६९ ॥ द्राक्सुयोधनवधोद्धतानुजक्रोधरोधमधुरे युधिष्ठिरे । भारतीमथ विचित्रनन्दनश्चन्दनद्रवनिभामभाषत ॥ ७० ॥ वत्स मत्सरिषु हृच्छरायितकूरदूरवचनेषु वल्गिषु । विष्टपानि रुषि दग्धुमीश्वरः को न कुप्यति महासहायवान् ॥ ७१ ॥ मुञ्चतीन्दुमणिरप्यहो महाघर्षणेन तमसि स्फुलिङ्गकान् । ईदृशोपेशमचारुचेतसः कस्तवोपमितिमेतु हेतुभिः ॥ ७२ ॥ सोदरैः सह सहस्रदीधितिस्पर्धिवर्धितमहोमहोद्यमैः । आद्रियस्व निजराज्यमुज्वलं पावनी कुरु नृपावनीमिमाम् ॥ ७३ ॥ सद्गुरूक्तमिव चित्ततः क्वचिन्नोपकारमवतारयन्त्यहो । अर्थिदत्तमिव वित्तमुत्तमा न स्मरन्त्यपकृतं परैः कृतम् ॥ ७४ ॥ संसहस्व कुनयं सुयोधने स्वानुजे व्रज निजां पुरीमपि । सा पृथापि च भवद्वियोगिनी क्लेशलेशविवशा भविष्यति ॥ ७५ ॥ १. 'वधवा' क-ख. २. 'पमितिचारुक. ३. 'पृथाभवभवद्वि' क-ग.
Aho! Shrutgyanam