________________
१७२
काव्यमाला।
अनुज्ञया चीवरकर्षणस्य मुहुर्मुहुः कम्पि शिरः कुरूणाम् । अस्त्राधिदेवैरिव पाण्डवीयैः प्रारब्धमुन्मूलयितुं रराज ॥ ५० ॥ अतिप्रकर्षेऽशुककर्षणानाममर्षतोऽभाषत भीमसेनः । अनध्वनीनां श्रवणध्वनीनां मम प्रतिज्ञां शृणुत क्षितीशाः ॥ ५१॥ । दुःशासनस्यास्य विदार्य वक्षः पिबामि नासृग्चलुकत्रयं चेत् । लिप्ये तदस्यैव दुराशयस्य पापेन साध्वीपरितापजेन ॥ १२ ॥ देव्या मणीभासुरदिव्यवासोराशिस्तदा संसदि कृष्टमुक्तः । बभौ महीयान्धृतराष्ट्रवंशदाहाय दावाग्निरिव स्वयंभूः ॥ ५३ ॥ दुःशासने चीवरकर्षखिन्ने हिया निषण्णेऽथ वधूः पृथायाः। अनाथवन्नाथवती सती मामयं हहाकर्षदिति व्यलापीत् ॥ १४ ॥ सूतात्मजस्तामथ भाषते स्म क ते सतीत्वं प्रचुरप्रियायाः । जितेत्यनाथासि तदाशु नाथवती भवैकं वृणु कौरवेषु ॥ ५५ ॥ वदत्यदः सूतसुते मदान्धः पापाब्धिरत्रोपविशेति जल्पन् । मूल् मुमूर्षुर्द्वपदाङ्गजाया दुर्योधनोऽदर्शयदूरुदेशम् ॥ १६ ॥ क्रुधोच्छसत्कर्णमुखादिरन्ध्रकीर्णाग्निकीलोऽभ्यधिताथ भीमः। विनिर्यदौर्वाग्निशिखो युगान्तविमुक्तमर्याद इवाम्बुराशिः ॥ १७ ॥ आस्फालयच्चीरमपोह्य यं रे प्रदर्शयन्संसदि यज्ञजायाः। दुर्योधनाजी गदयानयाहं तं वाममूरुं तव चूरयिष्ये ॥ १८ ॥ इत्युन्नदन्तं दृढकोपपिष्टदन्तं निरूप्य प्रसभं नदन्तम् । कम्पं दधुः केचन विष्टरेभ्यः पेतुः परे मूर्छनमापुरन्ये ॥ ५९ ॥ अद्यैव वा श्वोऽप्यथवायमेव कालः कुरूणां कुमतेर्गुरूणाम् । एवं बभूवुर्विदुरापगेयशारद्वतद्रोणमुखेषु वाचः ॥ ६ ॥ मुखेन मुञ्चच्छिखिनः शिखौघं वदन्निवाशेषकुलस्य दाहम् । तदाग्निहोत्रे कुरुपार्थिवस्य गोमायुरुच्चैः स्वरमुन्ननाद ॥ ६१ ॥ मत्वेत्यरिष्टं विदुरादुराशामुन्मुच्य भीचुम्बितचित्तवृत्तिः । कदर्थितस्वान्तमकीर्तिशब्दैर्दुर्योधनं धीनयनो जगाद ॥ ६२ ॥ १. 'क्रुद्धोल्लसत्कर्ण' ख. २. 'विदुरो दुराशा उन्मुच्य' क.
Aho! Shrutgyanam