________________
काव्यमाला ।
वीरवादितमङ्गल्यकम्बूनां निनदैस्तदा । मयान्यैरपि भूपालैमूछालैः पतितं भुवि ॥ ८१ ॥ कृष्णपाण्डवशैनेयधृष्टद्युम्नैरमूच्छितैः। हसितोऽहं वजन्मोहं यत्तैस्तन्नति विस्मृतिम् ॥ ८२ ॥ आसीत्कृष्णार्चनात्पुष्पवृष्टिर्या नकुलाग्रजे । सा मां दुनोति चेदीन्द्रमृत्यूत्पातोडुपातवत् ॥ ८३ ॥ वाप्यन्तः पतितं कृष्णा यन्मां स्त्रीभिः सदाहसत् । स्खलत्यद्यापि तत्तात चित्ते निशितशल्यवत् ॥ ८४ ॥ इत्यादिस्मरणोत्पन्नचिन्ताभारभियेव मे। स्थितिमेकत्र कुत्रापि स्थाने न कुरुते मनः ।। ८५ ॥ अपूर्यमाणवाञ्छस्य तादृक्परिभवोदधेः । मृत्युरेवाद्य मे श्लाघ्यो न तु दुःखविडम्बनम् ॥ ८६ ॥ इत्यवेत्य व्यथां सूनोर्वाचमूचेऽम्बिकासुतः । वत्स कापुरुषस्यैव वैराग्याय परर्धयः ॥ ८७॥ पुरी कुरु नयारम्भैजृम्भमाणश्रियं स्वयम् । सभां तादृक्प्रभां नानारत्नैर्यत्नेन कारय ॥ ८८ ॥ गौतमाङ्गपतिद्रोणद्रौणिभिः ककुभो जय । सप्ततन्तुं कुरुवृतः सोदरै राजसूयवत् ॥ ८९ ॥ वत्स निर्वेदभूर्मा भूः कीर्तिमर्जय विक्रमात् । त्वज्ज्येष्ठो यत्पृथासूनुः श्रीमान्सोऽप्युत्सवस्तव ॥ ९० ॥ अथाकिरद्गिरं दैन्यच्छन्नक्रोधां सुयोधनः । सा श्रीः पुरे चिरेण स्यात्प्रतिभूः कोऽस्ति जीविते ॥ ९१ ॥ सभा व भाविनी तात तादृङ्मनुजकर्तृका । पाण्डवैः पीतसर्वस्वाः कः स्वार्थो जयतां दिशः ॥ ९२ ॥ राजसूयं विना न स्यां सम्राट् किं सप्ततन्तुना ।
लज्जे तद्विक्रमार्तासु संक्रामन्राजराजिषु ॥ ९३ ॥ १. 'दये' ख. २ 'त्वं' ख. ३ 'सभासु' ख.
Aho! Shrutgyanam