________________
२ सभापर्व-४सर्गः] बालभारतम् ।
ज्येष्ठः के मे तपःसूनुरुदासो यस्तदाभवत् । भीमादिषु सहासेषु सभान्तःस्खलिते मयि ॥ ९४ ॥ गौतमादिभिराक्रम्य तत्पार्थान्वैरिणो रणे । गृह्ने पुरं सभाशोभि दिग्जयोत्थां च संपदम् ॥ ९५ ॥ मत्वेति तत्र दुर्मन्त्रं धृतराष्ट्र विवक्षति । खस्त्रीय प्रति गान्धारधरणीविभुरभ्यधात् ॥ ९६ ॥ पुरः स्फुरन्मुरारातिभीमार्जुनयमो युधि । क्रोधे दग्धुं क्षमो विश्वं केन जेयो युधिष्ठिरः ॥ ९७ ॥ तं तु रन्तुमजानन्तमाहूतमनिवर्तिनम् । सारिद्यूतेन जित्वाहं ग्रहीष्ये सर्वमप्यदः ॥ ९८ ॥ तद्रूप कारितस्फारसभालोकच्छलादमुम् । इहानय ततः सर्व ग्रहीष्येऽहं धियानया ॥ ९९ ॥ ऊचेऽथ व्यथमानोऽन्तः स प्रज्ञानयनो नृपः । धिमन्त्रं वः स धर्मात्मा जेतव्यः कैतवादिभिः ॥ १० ॥ कर्मण्यस्मिन्क सा धर्मप्रतापयशसां कथा । किं तु पापमसामर्थ्यमयशश्च प्रकाशितम् ॥ १०१ ॥ इत्युक्ते व्यक्तकोपन्धिः स्वभावान्धसुतोऽवदत्। धर्मात्मा वा विधर्मो वा कैषा द्विषि विचारणा ॥ १०२ ॥ शक्त्या जेतुमशक्योऽरिः संताप्यः कैतवादपि । छलाङ्कलाग्रजोऽबध्नाद्धर्मज्ञं बलिनं बलिम् ॥ १०३ ॥ तत्कुरूपक्रमं तूर्णमेताजेतुं विरोधिनः । न चेद्रोगैरिवाच्छिन्नस्तैरुन्मूलयितास्महे ॥ १०४ ॥ कार्येऽस्मिन्पाण्डुपक्षीयैर्विदुरायैर्निषिध्यसे ।
तत्त्वं तात चिरं नन्देर्मरणं शरणं तु मे ॥ १०५ ॥ १. 'काम' ख. २. 'दासीनस्त' ख. ३. 'क्रोधाद्दग्धु' ख. ४. 'नयत तत्सर्व' ख. ५. 'पान्धस्वभावो' ख. ६. 'मेनं जेतुं विरोधिनम्' ग. ७. 'न त्वं तात' क, 'वं च तात' ख.
Aho! Shrutgyanam