________________
१५८
काव्यमाला |
भीष्म भीष्मतरतेजसो भृशं भूभुजोऽवगणयन्ति यं गुणैः ।
9
तं जलेशयमपि प्रपूजयन्वृद्ध इत्यधम तैर्न वध्यसे ॥ ७० ॥ गां निशम्य निशितामिति कुधा दुर्धरोऽभ्यधित सिद्धसिन्धुभूः । ये नृपा न गणयन्ति शाङ्गिणं तच्छिरःसु पदमेतदर्पितम् ॥ ७१ ॥ पूजितो हरिरयं मयामुना रे नृपाः किमपि यस्य दुष्यति । अद्य मद्भुजभुजङ्गभेकतां निर्विवेकमतिरातनोतु सः ॥ ७२ ॥ इत्युदीर्णरुषि जीर्णपौरुषे रोषरूक्षितमुखेषु राजसु ।
शार्ङ्गिणं प्रति जगौ जगद्भिदा घोषघोषि दमघोषनन्दनः ॥ ७३ ॥ योग्यतातिगमुपाददेऽर्चनं किं त्वया कथममीभिराहितम् ।
त्वामहं शिखिमुखे जुहोम्यतः कृष्ण शान्तनवपाण्डवैः समम् ॥ ७४ ॥ एहि मङ्खु मदपूर्ण मे हितं संविधेहि युधि शक्तिरस्ति चेत् ।
मद्भुजोस्त्वनुचितार्हणग्रहक्रूरपापहरणाय ते गुरुः ॥ ७५ ॥ त्वं च शान्तनव पाण्डवाश्च रे मङ्कु संयति समेतमेत वा । एककालमि वः पिवाम्यहं कुम्भयोनिरिव सप्त तोयधीन् ॥ ७६ ॥ एवमब्द इव शब्दमम्बरध्वानिनं सृजति सात्वतीसुते ।
आददे सदसि दैवैतद्विषत्खण्डिना मृदु शिखण्डिनेव गीः ॥ ७७ ॥ मत्पुरीमदहदेष मत्पितुर्वाहमप्यहृत वाहमेघतः । बभ्रुसुभ्रुवमपाहरन्नृपा वच्मि विप्रियमतः किमेककम् ॥ ७८ ॥ आगसामिति शतं पितृष्वसुः पुत्रकोऽयमिति मर्षितं मया । सांप्रतं तु न सहेऽतिमन्थतः क्षीरनीरधिरपि व्यधाद्विषम् ॥ ७९ ॥ कोपकम्पितकरक्रमाधरः प्रोचिवानथ सुनीथपार्थिवः ।
रे जनार्दन विनर्दसीति किं किंकरस्य तव का मयि क्षमा ॥ ८० ॥ मां सहस्व सहसाद्य साहसादुत्पतेति तमुदित्वरायुधम् । चक्रचङ्कमवशादसौ शिरोविप्रयुक्तवपुषं विभुर्व्यधात् ॥ ८१ ॥
२. 'र्णभीहितं' ग. ३. 'मपि' ख-ग. ४. 'विष्णुना द्विषः' ग.
१. ‘तन्न’ ख. ५. 'पूजको ' क.
Aho ! Shrutgyanam