________________
२सभापर्व-सर्गः]
बालभारतम् ।
सत्स्वपि द्रुपदकुम्भसंभवव्यासवृद्धगुरुयाज्ञिकेषु किम् । पूजितः कुरुपते हरिस्त्वया नैकमप्यधित तेषु यो गुणम् ॥ ५७ ॥ पूज्य एव यदि वा स एष वस्तन्नृपाः किमुपहूय वञ्चिताः । धर्मसूनुरिति चात्मनः कुतो नाम नाम निबिडं विडम्बितम् ॥ १८ ॥ इत्युदीर्य सममुत्थितो नृपैर्गन्तुमिच्छुरवनीभृता धृतः । बोधितोऽपि शुचिसान्त्वनोक्तिभिर्वाचमित्ययमुवाच कोपनः ॥ ५९ ॥ नो गतिर्भवति पुत्रवर्जिते तेन नूनमगतिधुनीजनिः । छेत्तुमेष भवतोऽपि सद्गतिं बुद्धिदोऽजनि जनार्दनार्चने ॥ ६० ॥ उक्षवाहशकटाहिमुख्यभिद्विक्रमस्मितमनास्त्रिविक्रमः । भूयसोऽपि परिभूय भूपतीनद्भुतानयमपूजि धिक्तया ॥ १ ॥ यः स्त्रियं बत जघान पूतनां नूतनाङ्कुरितपुण्यकन्दलः । ईदृशि ऋतुमहोत्सवे महाराज युक्तमयमच्युतोऽर्चितः ॥ १२ ॥ कतवादयमजर्जरां जरासंधबन्धनविधौ धियं व्यधात् । तत्कलङ्कभरभागभागसि स्तुत्य इत्युचितमच्युतस्तव ॥ ६३ ॥ एतदुक्तवति तत्र कोपतस्तद्वधाय युधि भीममुत्थितम् । संनिरुध्य सहसा भुजोरसा शान्तनिस्तमिति शान्तये जगौ ॥ १४ ॥ प्राागिह त्रिनयने चतुर्भुजे जातवत्यशुभरासभध्वनौ ।
स्तमातृपितृभीतिपारदा भारतीति गगनोद्भवाभवत् ॥ ६५ ॥ डिम्भ एष भविता जगज्जयी मृत्युरस्य स पुनर्भविष्यति । सास्यतोऽधिकदृशा समं यदुत्सङ्गसङ्गवशतोऽधिको भुजौ ॥ ६६ ॥ इत्यमुष्य जननी श्रुतश्रवाः कस्य नैनमकृताङ्कवर्तिनम् । विष्णुमस्तमिव भानुमानयं प्राप्य नष्टकरदर्शनोऽभवत् ॥ १७ ॥ भ्रातृ निजमथाह सा हरि सापराधमपि मा वधीरमुम् । इस्यदादभयदं वरं तदा विष्णुरप्रियशतावधिं सुधीः ॥ ६८ ॥ एनमप्रियशतायुषं ततो विष्णुयज्ञपशुमत्र मावधीः। इत्यवेत्य शममाप मारुतिः कोपमाप्य च जगाद चेदिपः ॥ ६९ ॥ १. समुपस्थितो' क. २. भीष्मः. ३. 'हि' ख. ४. 'तत्त्वया'क; 'धिकिया' ख.
Aho! Shrutgyanam