________________
.११६
काव्यमाला |
तत्प्रदेयमणिपूर्तये पेयोनाथमाथहृदयस्तदा हरिः । मन्दरभ्रमिसुखं विलेक्षिपद्यद्विरोचनसुतं शुशोच तत् ॥ ४९ ॥ कम्पभृद्ग्रहमणिर्न भोमणिस्तापवान् कलुषहृन्निशामणिः । स्वस्वदानचकितः शुचाभवत्तत्र यच्छति नवच्छवीन्मणीन् ॥ ४६ ॥ पात्रमेष वसुभिर्यथोन्नतं रागभृद्भिरभिपूरयन्क्रमात् । सर्वतोऽप्यवनिमप्यपूरयत्प्रातरभ्युदयवानिवार्यमा ॥ ४७ ॥ स्थापयन्पृथु यथा दरिद्रकं वित्तमेष निखिलेऽपि भूतले । एकरूपमसृजद्यथा यथा निम्नमम्बु घटयन्घनाघनः ॥ ४८ ॥ आयुगान्तकुलभृद्भिरक्षयैरर्थिनां निधिगतैस्तदर्पितैः । रत्नराशिभिरनन्तया रजोगर्भयाप्यजनि रत्नगर्भया ॥ ४९ ॥ स्वं तथादित स पार्थिवो यथा संजगुर्दिवि बिले च याचकाः । स्वर्युधिष्ठिरममर्त्यपादपं पन्नगालययुधिष्ठिरं बलिम् || १० ॥ एक एव शुचि मन्युरित्यसौ भूरधः कृतविरोचनात्मजा । अङ्गुलीमिव चपालमुद्रिकामुद्रितं सपदि यूपमौर्ध्वयत् ॥ ११ ॥ भूमिपातुरथ पात्रमत्र तत्संसदि प्रथममर्हणोचितम् । पृच्छतः क्रतुमहे पितामहः संभ्रमादिति बभार भारतीम् ॥ १२ ॥ शक्रचक्रनुतमर्हणोचितं यद्विदन्नपि जगद्गुरुं हरिम् । पृच्छसि त्वमिह मां व्यनक्ति तद्गौरवं गुरुषु कौरवोत्तम ॥ १३ ॥ यत्पदोदकमधत्त मूर्धनि स्वर्धुनीं त्रिजगतीहरो हरः । * तं पुराणपुरुषं त्वमञ्जसा विज्ञ यज्ञपुरुषं च पूजय ॥ ९४ ॥ इत्युदारनिजचिन्तनस्फुटीकारवाचि सति शंतनोः सुते । आद्यमर्घमसुरारये रयात्पाण्डवोऽदित नवोदितस्मिँतः ॥ ५९ ॥ यज्ञसीनि शिशुपालपार्थिवश्चक्षमे न हि तदर्चनं हरेः । पाटलायितकरालर्हग्गिरं देहिनीमिव रुषं ततान तत् ॥ ५६ ॥
१. 'पयोधिप्रनाथ' ख. २. ख- पुस्तकेऽधिकः ३. 'क्षत्र' ख. ४. 'तत्' क. ५. 'स्मयः ' क.ग. ६. 'हरभरे' ख.
Aho ! Shrutgyanam