________________
२ सभापर्व - ३ सर्गः ]
बालभारतम् ।
पावकैकमुखदुःखभोजनात्तृप्तिरापि नियतं न दैवतैः । तत्र ते रसवतीरसामृतं पातुमित्यजनि भूमिदैवतैः ॥ ३३ ॥ संभृतैरवभृथैकमङ्गलैः संगत त्रिजगतः प्रियंकरः । बन्धुबन्धुरितसंनिधिर्व्यधाद्दानवर्त्मनि मनो जनाधिपः ॥ ३४ ॥ स्पष्टतामटतु रत्नमण्डलं दानहेतुवसुधा च वर्धताम् । इत्ययं द्विजकरेषु कल्पनावारि वारिनिधिशोषकं ददौ ॥ ३५ ॥ अत्र दानरसिके रसातौ स्वायतायभरभाजि के वयम् । इत्यभावि भुवि कल्पपादपैरस्य दानजलसेकतोऽपि न ॥ ३६ ॥ भूमिदैवतकुलाय भूमिकां दातुमेव दधतो निजे भुजे । रुद्ध भूरितरभूमयो घृणां कुर्वते स्म हृदि तस्य भूधराः ॥ ३७ ॥ भूमिदेवनिवहाय भूरिभिर्भूरदायि वसुभिः सहामुना । इत्यसौ वसुमतीति नूतनं नाम नूनमतनिष्ट विष्टपे ॥ ३८ ॥ राजकानि मखशेषया भुवा स्वल्पयाप्ययमपूजयद्यया । तानि तां ननु नितान्तभारिणीं मौलिभिर्हुतमगृह्णतानतैः ॥ २९ ॥ आदितो यदसुवद्धृतं वसु क्ष्माधवैस्तदुपदाकृतं मुदा । आददे स बहुमानतः कृती मार्गणेषु तृणवददौ पुनः ४० ॥ पूर्यतामुपदया मम ऋतुः स्पर्धयेति यददुर्धनं नृपाः । तद्बभूव खलु तस्य भूपतेरेकमार्गणकदानवर्णिका ॥ ४१ ॥ दातुमिष्टमजनिष्ट तस्य यत्तद्यचिन्ति मनसापि नार्थिभिः । चिन्तितं न रसनास्वधारितैः किं तु दानमजनि त्रयाधिकम् ॥ ४२ ॥ याचको यदिह याचतेऽयैतां तज्जवादिति जगाद किंकरान् । दानकृत्कनकमानयेत्यसौ नादिशत्खलु नकारवैरतः ॥ ४३ ॥ अर्थिनः प्रथित कार्यसंमितं गृह्णतोऽप्यधिकमस्य यच्छतः । नाददे खलु ददाति स्वत्वहं वाद एष भुवि केन भज्यताम् ॥ ४४ ॥
•
१९९
१. 'स्वापतेय' क; ' स्थापतेय' ख. २. 'मानदः ' ख. ३. 'तां' ख. ४. 'मानयत्यसौ' ग. ५. ‘वैरितः' ख; 'कैरत: ' ग.
Aho ! Shrutgyanam