________________
१५४
काव्यमाला।
सजनेष्वकृत भोजनक्रियाशोधनान्यथ सुयोधनानुजः । भूमिदैवतततिप्रतिग्रहे साग्रहोऽजनि कृपीतनूद्भवः ॥ २० ॥ पूजनानि जनयन्नयोज्ज्वलो राजराजिषु रराज संजयः। कृत्यवस्तुनि मनो धुनीजनिद्रोणयोरजनि याज्ञिकेऽधिकृत् ॥ २१ ॥ दक्षिणास्वजनि दक्षिणः कृपस्तत्त्वमैक्षि विदुरेण धार्मिकम् । अर्हणग्रहणगौरवं नृपः कौरवोऽभजत सर्वभूभुजाम् ॥ २२ ॥ नारदादिमुनिराजिराजिते केशवादिकनरेशपेशले। ब्रह्मतामधित तत्र सत्यवत्यङ्गजस्त्रिजगदर्चितः क्रतौ ॥ २३ ॥ यज्ञवेदिमनुसंस्कृतामुपाध्यायपङ्क्तिभिरथो यथोचितम् । आजगाम सह राजकैरसौ राजसूययजमानशंकरः ॥ २४ ॥ सा जगत्रयजनौघपावनी नूनमात्मनि पवित्रताकृते । तत्पदं त्रिपथगाभ्यगादनूचानचक्रगुणितत्रयीमयी ॥ २५ ॥ मावसौरभभृतो विभावसौ मन्त्रपूतमुपहूतदेवताः । जुह्वति स्म बत बह्वपि द्विजा द्रव्यमण्डलमखण्डशक्तयः ॥ २६ ॥ पालनोद्यततृतीयपाण्डवप्रत्तखाण्डवरसौधनीरुजा । पावकेन पपिरे परम्पराः सर्पिषामिह वपुःप्रपुष्टये ॥ २७ ॥ इयमानमुपहूय सज्जिता वीक्ष्य हव्यममरा हविर्भुजि । आननोत्थममृतं मुहुर्मुहुः सावहित्थमहतस्पृहाः पपुः ॥ २८ ॥ उद्धतेऽपि सति धूमसंचये लोचनैरनिमिषैर्निरीक्षितम् । गृह्णते स्म हविराहुतं द्रुतं पावके निपतदेव देवताः ॥ २९ ॥ नीरसाभिरमृतेऽमृतद्युतेः किं च नीरुचिभिरप्सरोऽधरे । तत्र कश्चन सुधाचयस्त्रयस्त्रिंशता त्रिदशकोटिभिः पपे ॥ ३० ॥ तत्र वल्गनरसाय वल्गता संततं ग्रुपतिना वियोगिनी । द्यौरराजत मखाग्निकेतनश्रेणिदम्भकृतवेणिबन्धना ॥ ३१ ॥ दानवारिधुतदानवैर्यथास्वादितैव विबुधैः सुखं सुधा । धौम्यधूतलघुजातिभिस्तथाभुज्यतान्नममृतं द्विजातिभिः ॥ ३२॥ १. 'वल्लभरसाय' क-ख.
Aho! Shrutgyanam