________________
२सभापर्व-३सर्गः]
बालभारतम् ।
१५३
ध्यातया जगदिन त्वदाज्ञया स्तम्भितो मणिकदम्बदम्भतः । आजगाम मम धाम मानिनां नाम धामदहनो महीभुजाम् ॥ ७ ॥ यैर्विलास गिरिभिर्नयश्रियां जिग्यिरे चकितदिग्गजा दिशः। . तान्मम व्यदधत क्षमाभृतः प्राभृतं भृशमसंनिभानिभान् ॥ ८ ॥ येऽश्ववारमनसा समं नभस्युल्लसन्ति समरे समन्ततः । युक्तमेव मयि तान्ददुनृपाश्चित्तसेवितमदङ्ग्रयो हयान् ॥ ९॥ इत्यमी मम परोपकारिताभासुराशय विभूतिराशयः । त्वत्प्रसादवशतः परश्शतक्ष्माभुजङ्गजययोनयोऽभवन् ॥ १० ॥ तद्दिश त्रिदशशर्मकर्मणे यत्करोमि समयज्ञ संप्रति । त्वं सुमित्रमसि मे सुमन्त्रिते सद्गुरुः सदुपदेशसंपदि ॥ ११ ॥ सन्ति संततमपि त्वदीक्षणाद्राजसूयमखराजयोऽपि मे । किं तु तातवचनादिह स्पृहा सापि हि त्वदनुबन्धवान्धवी ॥ १२ ॥ मङ्क मामनुमनुष्व तत्क्रतौ गच्छ मेऽद्भुतमहाः सहायताम् । दीक्षितो भवतु वा भवान्भवद्भारतीभरपरो भवाम्यहम् ॥ १३ ॥ इत्युदीरितवति प्रभौ भुवः सभ्यमभ्यधित विष्टपाधिपः । लोकदृक्कुमुदवृन्दसंमदद्योतमानदशनेन्दुमण्डलः ॥ १४ ॥ त्वं क्रतुं कुरु कृतिन्भवत्कृते मत्कृतेऽपि न च किंचिदन्तरम् । एकमेव हि यशोऽजबोधने भात्यहर्पतिमहःसमूहयोः ॥ १५ ॥ दिग्जितस्त्वदनुजास्त्वदुत्सवे निर्विशेषमतिरेष तेष्वहम् । इत्यमी ददतु पञ्च पञ्चतां तस्य यस्त्वयि न कर्मकृन्नृपः ॥ १६ ॥ एवमुक्तवति देवकीसुते सेवकीकृतसमस्तराजकः । सैष धौम्यमुनिना मुनीन्नृपः सोदरैरपि नृपानजूहवत् ॥ १७ ।। सिद्धसिन्धुसुतमुख्यबन्धुभिर्वन्धुरैरनुमतोऽनुबन्धतः । सोममूर्तिरयमष्टमूर्तिभृन्मूर्तितामधित दीक्षितो नूपः ॥ १८ ॥ धौम्यदिष्टनकुलाग्रजद्विजस्तोमसंस्तुतसमस्तवस्तुनि । यज्ञकर्मणि पृथात्मजो यथौचित्यमादिशदथावनीधवान् ॥ १९ ॥
Aho ! Shrutgyanam