________________
१९२
काव्यमाला |
मध्येबन्धु प्रथितविजयस्तम्भवेदी चतुष्कं दीप्ते तेजः शिखिनि विधिना वर्तयन्मण्डलानि । यज्ञप्रेप्सुः प्रसृमरयशश्चन्दनस्पन्दशुभ्रा -
मित्थं पृथ्वीं सुकृततनयः पर्यणैषीन्मनीषी ॥ १५२ ॥ अथामी सामीरिपतिसुतनासत्यतनुजा जगज्जित्वोपेताः सुकृतसुतमानम्य मुदितम् । नगर्याः पर्यन्त क्षितिषु निखिलाशाजयमय
श्रियां लीलाशैलानिव कनककूटानघटयन् ॥ १५३॥ भ्रष्ट स्पष्टापरनरपतिश्रेणिशुभ्रातपत्र
छ हैमं जगति सकले लालयन्नेकमेव । ताराभारव्यपगमभवद्वैभवो भानुविम्ब
भ्राजी भूमि दिवस इव स द्योतयामास वीरः ॥ १५४ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनान्त्रि महाकाव्ये वीराङ्के सभापर्वणि सर्वदिग्विजयो नाम द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः । अस्तु वस्तुषु पराशरात्मजज्ञानदुग्धजलधिः स शुद्धये । नीयते बत यदेकबिन्दुना भारतेन विलयं भवानलः ॥ १ ॥ सोदरैरथ वृकोदरादिभिस्तैरधिष्ठितजयो युधिष्ठिरः । आदधौ वशगदिक्चेतुष्टयस्तुष्टये मखभुजां मखोद्यमम् ॥ २ ॥ एष एव समयः समुन्नति यावदापतति तावदापतत् । श्रीपुराणपुरुषः पुरः पुरीभर्तुरस्य चतुरः ऋतुक्रमे ॥ ३॥ स्फाटिके सदसि संनिवेश्य तं क्षीरनीरधिनिवेशविस्मरम् । विश्वपूज्यमभिपूज्य चावदत्पुङ्गवः क्रतुकृतां कृताञ्जलिः ॥ ४ ॥ त्वत्प्रसादमदसीमया मया निर्जितं जगदेशेषमप्यदः । तामसं सृजति दिक्षु भङ्गुरं पङ्गुरप्यरुणसेवयारुणः ॥ ५ ॥ तत्क्षणं कलुषितात्मनां रणे भूभृतामपहताः प्रभा इव । मान्ति कान्तिसमदा मदालये रुक्मिणीवर न रुक्मपर्वताः ॥ ६ ॥
१. 'त्मजो' क. २. 'चतुष्टये तुष्टये' ख. ३. 'दजेय ख- ग.
Aho ! Shrutgyanam
दिन में