SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यशो वर्षन्सुवेलादौ तच्चमूरजनीचराः ॥ १३२ ॥ इत्थं जयजुषा तेन समर्थेन समन्वितः । ववले कलयन्कीर्तिमर्जुनामर्जुनानुजः ॥ १३३ ॥ इति दक्षिणदिग्विजयः॥ नकुलस्तु महीपालकुलस्तुतपराक्रमः । प्रपञ्चयंश्चमूवीची प्रतीचीमभिचेलिवान् ॥ १३४ ॥ परिभ्रष्टयशः पुष्पा मरुतेव प्रसर्पता । कम्पयांचक्रिरे तेन के न भूपतिभूरुहाः ॥ १३५ ॥ अन्धानां सैन्यधूलीभिर्बधिराणां च भेरिभिः । निःशकं द्विषतां लक्ष्मी रसादभिससार तम् ॥ १३६ ॥ विपक्षपक्ष्मलाक्षीणां क्षीणां कुर्वन्मनोरतिम् । श्रीकार्तिकेयभवनं रोहीतकमुपाद्रवत् ॥ १३७ ॥ दिग्हाराभयशोरोही रोहीतकपुरस्पृशाम् । शूराणां द्रावयन्मत्तमयूराणां रणोत्सवम् ॥ १३८ ॥ चमूभरनमभूमिदूरोन्नतकुलाचलः । महाक्षत्रकृतावेशं मरुदेशं निवेश सः ॥ १३९ ।। (युग्मम्) वसिष्ठाश्रम वृक्षरर्बुदाद्रौ सदाफलैः । तत्सैन्यास्तापममुचन्बहिरन्तश्च मार्गजम् ॥ १४ ॥ स वसिष्ठमखोत्थानां विश्वामित्रजितामपि । तत्र धात्रीभृतामन्यैरनुच्छिष्टं पपौ यशः ॥ १४१ ॥ तस्य सैन्येभदानाट्टै हतवीराश्रपङ्किले। द्विषत्कान्ताश्रुभिर्नद्यो जाङ्गलेऽपि स्थलेऽवहन् ॥ १४२ ॥ शिरीषकाशिबीन्हैमास्त्रिगर्ताम्बष्ठमालवान् ।। .. १. 'दिग्दारा' क; "दिग्धाराभ' ग. २. 'चभूनर' ख. ३. 'शिरीषांश्वाशिवी' क; 'शैरीषका' ग. ४. 'नर्त' ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy