________________
२सभापर्व-२सर्गः] बालभारतम् ।
१४९ निःस्वाननिबिडवानस्रस्तसानुततिच्छलात् । कलिङ्गेषु महेन्द्राद्रिस्तं तुङ्गत्वनितोऽनमत् ॥ १२० ॥ तस्मिन्नाराचधाराभिः कलिङ्गेशः सुरेशवत् । चिरं ववर्ष विस्तार्य गर्जतो दिवि वारिदान् ॥ १२१ ॥ करवालेन कुम्भिभ्यः कृष्ट्वा मुक्ताफलान्यथ । बीजानीव यशोवल्लेरुप्तवान्भुवि पाण्डवः ॥ १२२ ॥ धाराद्वयप्रभिन्नेभकुम्भमुक्तावलिच्छलात् । जयश्रीस्तत्कृपाणस्य वरमालामिवाक्षिपत् ॥ १२३ ।। पदपद्मद्वयं तस्य लक्ष्मीसम स्वयं ततः । मुक्त्वा कलिं कलिङ्गेशो नतः केशैरमार्जयत् ॥ १२४ ॥ तत्र नीरधितीराप्तपूगाभोगिलतादलैः । तद्वीरैः किंचिदसारि नालिकेरीफलेक्षणात् ॥ १२५ ॥ जित्वा रोमान्थपवनरुरुकच्छादिभूपतीन् ।। दिदीपे सिंहलद्वीपे स महोभिर्महाबलः ॥ १२६ ॥ तत्र द्विपरदापातकम्पमानमहावपुः । तस्मै भियेव भूरीणि ददौ रत्नानि रोहणः ॥ १२७ ॥ द्विरदोदस्तकर्पूरतरुगीर्णाभिरावृतम् । तत्र कर्पूरपारीभिस्तत्कीर्तिभिरिवाम्बरम् ॥ १२८ ॥ श्रीरोहणाश्रमागस्त्यसेवार्थ तत्र संस्थितः । सिंहलेशार्चितः प्रैषीलङ्कां प्रति घटोत्कचम् ॥ १२९ ॥ श्रीरामविक्रमचमत्कारविस्मारणै रणैः । अक्षोभितः स रक्षोभिर्वशीचक्रे विभीषणम् ॥ १३० ॥ युधिष्ठिरजयस्तम्भसमारोपवशादसौ। त्रिकूटमपि शैलेन्द्रं चतुष्कूटमिव व्यधात् ॥ १३१ ॥
लङ्कावस्कन्दकल्याणैस्तडित्त्वन्तोऽम्बुदा इव । १. 'निस्वास' ख. २. 'विस्तीर्य' ग. ३. 'कुम्भेभ्यः' ख. ४. 'शस्ततः' ग. ५. 'रोमांश्च' ग. ६. 'महापथः' क.
--
Aho! Shrutgyanam