________________
१.३६
काव्यमाला। ये ये पुनः शौर्यबलावलेपात्तत्संमुखा भूपतयो बभूवुः । विनित्य ते ते समरैर्निरुद्धा गिरिव्रजान्तः षडशीतिसंख्याः ॥ ७४ ॥ राज्ञोऽधुनावध्यचतुर्दशैव शतेन तेषां मखमीहतेऽसौ । यस्तान्कृती मोचयति प्रबद्धान्सम्राट् स भूमौ विभवत्यवश्यम् ॥ ७९ ॥ सप्राणयुद्धैर्विनने यदि स्याजेयो हरेणापि रणे त्वजेयः । अहं निजे दुर्यशसीव सिन्धौ पलायितस्तन्महसा वसामि ॥ ७६ ॥ भीमो भुजस्तम्भबलाद्भुतश्रीर्जम्भारिजन्मा जगदेकजेता । अहं महानीतिरिति त्रयोऽपि युता जरासंधवधाय यामः ॥ ७७ ॥ इत्युक्तमन्त्रोच्छसितस्य राज्ञः समाज्ञया शौरिररिव्ययाय । भीमार्जुनाभ्यां सह शुक्रसौम्यरम्योपकण्ठोऽर्क इव प्रतस्थे ॥ ७८ ॥ क्रमाद्ययुः प्राग्दिशि पञ्चसंख्यैर्विहारमुख्यैगिरिभिः परीतम् । त्रयोऽपि वीरा मगधाधिपस्य गिरिव्रजाख्यं नगरं गरीयः ॥ ७९ ॥ निहत्य यस्मिन्वृषभासुरेन्द्रं तच्चर्मसंनद्धतदस्थिढक्काः । तिस्रो जरासंधनृपेण क्लृप्ता नन्दन्ति चैत्यद्रुमपुष्पकीर्णाः ।। ८० ॥ भङ्क्त्वा प्रतोली स्वभुजप्रहारैर्निपात्य तच्चैत्यकमद्रिशृङ्गम् । अवमना तत्रयसंनिपातः पुरे द्विमातुर्नृपतेः पपात ॥ ८१ ॥ अमी बलत्रासितमालिकात्तमालास्ततः कैतवविप्रवेषाः । सदस्यकस्मान्मगधाधिपस्य ययुः प्रवीरा धृतचित्तवैराः ॥ ८२ ॥ गिरिव्रजेशोऽतिथिपूजनैकरतिनिषण्णानगृहीतपूजान् । ऊचेऽथ तान्विस्मयमानचेता धीराकृतिज्ञातनृपान्ववायान् ॥ ८३ ॥ विध्वस्य तीर्थ किमु मागधानां सदाचितं चैत्यकमद्रिशृङ्गम् । अद्वारमार्गेण पुरं प्रविष्टा गृह्णीत मे संप्रति नातिथेयम् ॥ ८४ ॥ द्विजा न यूयं भवतां भुजोर्वी मौर्वीकिणश्रेणिवशंवदश्रीः । राजत्यसौ संततसंचरिष्णुशौर्यद्विपस्यन्दिमदप्लुतेव ॥ ८५ ॥ प्राप्ता द्विजव्याजभृतः किमत्र क्षत्रस्य कस्य प्रभवा भवन्तः । क्षिप्तः किमझिवलदुज्ज्वलोग्रज्वालाकराले ज्वलनान्तराले ॥ ८६ ॥
Aho! Shrutgyanam