________________
२सभापर्व-१सर्गः] बालभारतम् ।
१३५ त्वत्पालनादाश्रममेदिनीषु सुखं यदापुर्मुनयो महान्तः । जानन्ति नूनं फलनोन्मुखीनां मुक्तेर्मुदामग्रयणं तदेव ॥ १३ ॥ मुक्त्वा तरन्तीमिति तावकीने सद्धर्मसिन्धौ धरणी फणीन्द्रः । शृणोति कीर्तिं भवतो भुजंगीगीतेषु मौलीनधुना धुनानः ॥ ६४ ॥ भवत्पुरीवासविलासभावन्मनोरथाविष्टहृदः सदैव । देवा दिवं मोक्तुममी न शक्ताः कः स्यात्क्षमः कर्मनियोगभङ्गे ॥६५॥ एतां परित्यज्य पुरी पुरोऽस्तु व ते रतिः स्वर्गमुपागतस्य । त्रिशङ्कुसूनोनयन्नपायं न राजसूयं तनुषे मखं चेत् ॥ ६६ ॥ यतो जयी राजसु राजसूययज्ञैकयाजी सुकृतैकभाजी । हसत्यसावत्र विभूत्वभूत्या हरि हरिश्चन्द्रमहीमहेन्द्रः ॥ ६७ ॥ योग्यो जयश्रीचतुरैश्चतुर्भिस्त्वं सोदरैरीशराज्यसंपत् । नयज्ञ यज्ञं जनयेत्युपेत्य मैत्रीपरो राजतु देवराजः ॥ ६८ ॥ संदिष्टमेतत्तव याम्यतोऽहं देवेशसंदेशकृते मुरारिम् । इदं निगद्याशु मुनिस्तिरोभूद्वियोतयन्विादिवांशुभिर्याम् ॥ १९॥ अथाह्वयदुर्वहराजसूयमन्त्राय नारायणमेकमित्रम् । धनाधिपोऽयं गुरुकार्यभारे यन्मन्यते वामधुरीणमेनम् ॥ ७० ॥ श्रीपाण्डुसंदिष्टमखाय मन्त्रं युधिष्ठिरेणायमुपांशु पृष्टः । नारायणः संगतराजनीतिपारायणं सारमिदं जगाद ॥ ७१ ॥ सर्वैर्गुणैरर्हसि राजसूयं राजन्पुनस्तस्य महाबलस्य । वधं जरासंधधराधवस्य विना न निर्वाहसखो मखोऽयम् ॥ ७२ ॥ भर्गाय भूमीधवमेधयज्ञं संकल्प्य यस्मिन्बलिनां जयाय । समुद्यते केऽपि नताः पदान्ते नेशुः परे केचन कांदिशीकाः ॥ ७३ ॥
१. '-इत्यमुं ते' ग; 'त्वमन्ते' क. २. एतदने क-पुस्तके 'निबोध भूपालसमुद्भवोऽस्य बृहद्रथस्यावनिपस्य पत्न्यौ । गुरोरयातां यतिनाश्रमं नो(2) विभज्य चानं गुरुदत्तमात्ताम् ॥ यज्ञान्त एते सकले निरस्ते हिया बहिर्योज्य ततो जराख्या। सुरूपसंपन्नमतः कुमारं राशेऽर्पयत्कृत्यविदे पलादी ।।' इति श्लोकद्वयमधिकं वर्तते.
Aho! Shrutgyanam