________________
१ आदिपर्व - १२ सर्गः ]
बालभारतम् ।
सपदि क्षिपन्ननुदिशं जलदाञ्जयसंपदा सह सहस्रदृशः । अदिदीपदर्दितवनं ज्वलनं नरतेजसा सममसौ पवनः ॥ ४५ ॥ निकृते विरोधिनि घने पवनैरुदितास्ततः शिखिशिखा मुदिताः । रुचिबन्धुमम्बुरुहबन्धुमपि द्रुतमस्पृशन्दिवि हसन्महसम् ॥ ४६ ॥ यदवारि वारिदततिर्वितता वियति स्वयं विजयिना जयिना । तदतिक्रुधा दिवि दधार पवि मघवाधिरुह्य विशदं रेदिनम् ॥ ४७ ॥ अथ संभ्रमभ्रमितभीमपवौ पवनप्रपातकुपिते पतौ । त्रिदशैर्भृशं निजनिजास्त्रततिः कलिता किरीटिकेलिकेलिकृते ॥ ४८ ॥ स्वजनप्रमाथभवदुःखदवाकुललोकनिःश्वसितधूमभरैः ।
ध्रुवमङ्गसङ्गिभिरतीव शितिं स दधार दण्डमिव दण्डधरः ॥ ४९ ॥ परिपिण्ड्य दत्तमिव धूर्जटिना जगदन्तकारि दहनाक्षिमहः । द्विषदस्खलं स खलु रुद्रसखः समये हिरण्मयगदास्त्रमधात् ॥ ९० ॥ दजेन्द्रकीर्तितरला बलिनो न पदात्पदं ददति यद्भयतः । तमुरीचकार वरुणस्तरुणघुमणिद्युतिं सपदि पाशमपि ॥ ११ ॥ इति शस्त्रविस्तृतरसा सहसा सह वासवेन दिविषत्परिषत् । दववह्निनिह्नवसमर्थरुचिः प्रचचाल पार्थसमरार्थमसौ ॥ ५२ ॥ अचलन्नितश्च गुरुगर्वभृतः क्षणमात्रवृष्टिकलितोच्छुसिताः । युधि यक्षराक्षसखगेन्द्रफणिप्रमुखा रुषा विजयिने विपिनात् ॥ १३ ॥ युधि यक्षराजिरसिराजिकरा विकरालतां निदधती परितः । स्फुटकोपताम्ररुचिरभ्यचलद्द वहेतिपङ्किरिव धूमयुता ॥ ५४ ॥ विविधास्त्रधारणकरालतराः कृतहुंकृतो विकृतभालभुवः । रसनाञ्चलज्वलदुरुज्वलना रजनीचरा विदधुरुगुरुताम् ॥ १९ ॥ अतिचण्डतुण्डनखराः खगतैः पवनं छदैस्तमसृजन्गरुडाः ।
ननु सोऽपि दीपकलिकेव दवः शमनोन्मुखः सपदि येन कृतः ॥ ९६ ॥ मणिपाणिजज्वलदनेक फणाङ्गुलिशालिनस्तरलतां दधतः । परितः प्रसतुरसितद्युतयो युधि मृत्युराज भुजवद्भुजगाः ॥ १७ ॥
१. ऐरावतम्. २. कलिः कलहः. युद्धमिति यावत् .
Aho ! Shrutgyanam
१२९