________________
१२६
काव्यमाला |
दिवि दैवतेषु कुपितेषु पुरः फणिदैत्यराक्षसमनुष्यकुलैः । विजयी विभुत्रिजगतीसुभटैः कटरि व्यधत्त युधमस्त्रसखः ॥ ९८ ॥ निजशस्त्रपाततरलेषु तदा त्रिजगद्भटेषु विकटेषु रुषा । क्षयवारिवाह इव वासवभूरिपुवृष्टिमष्टसु स दिक्षु दधौ ॥ १९ ॥ स्वयमुद्धृतेन युधि कोऽपि चलज्ज्वलदङ्गिपेण गिरिणा फलभुक् । नरवाणपातहतबाहुतया पतता व्यपाति निरदायि ततः ॥ ६० ॥ समिति त्रसन्नरशरैः शमनः करलम्बितलथितदण्डतया । नर एव वीर इति भूषितवान्नररेखया हृदवनिं महताम् ॥ ६१ ॥ परजीवितच्छिदुर कर्तनिकाभिधयन्त्रलोलरसनायुगलः ।
युधि कालपाश इव पाण्डुभुवा विशिखैर्गणः फणभृतां बिभिदे ॥६२॥ अभजद्भियं भृशमपूर्वचरीं नरवाणदौत्यघटितां धनदः । इति तस्य पाणिकृतयापि तदा गदया रुषेव दिवि विच्छुरितम् ॥ ६३ ॥ दिवि जातरूपगिरिगोत्रभृतां शिशुभूभृतामिव समुत्पतताम् । स गरुत्मतां सपदि पक्षतति विचकर्त युक्तमयमिन्द्रसुतः ॥ ६४ ॥ प्रचरिष्णुपार्थशरपातभयात्रसतः क्षणेन वरुणस्य रणे । करलम्बिपाशमयमस्त्रमपि व्यधित कुधेव चरणस्खलनम् || ६१ || कुपितश्चकार कदनानि हरिर्वनवासिनामपि रथाङ्गरयात् । अतिजिह्वयातितरलीकृतया कवलीचकार किल ताननलः ॥ ६६ ॥ द्विषतो निपिष्य युधि चक्रमहो मुहुरारुरोह मुरवैरिकरम् । दिवि विम्बमम्बरमणेस्तिमिराण्यभिहत्य पूर्वगिरिशृङ्गमिव ॥ ६७ ॥ हरिचक्रपार्थचरचक्रहतैर्वनवासिनस्त्रिदशतां गमिताः । नवरोचमानभुजशौर्य भरैरचलन्पुनर्युधि सुराः सह तैः ॥ ६८ ॥ नरसंगरेण दनुजान्मनुजानपि वीक्ष्य देवपदवीं गमितान् । सहजैरचालि किमु मुक्तिपदस्पृहयालुभिः समरसीम्नि सुरैः ॥ ६९ ॥ विललास चक्रधरचक्रमथ द्युपथे सहार्जुन सुवर्णशरैः । परितापितामरकुलं किरणाकुलमर्कविम्बमिदमन्यदिव ॥ ७० ॥
१. 'अर्जुनशरैः परितः ' क.
Aho ! Shrutgyanam