________________
१२४
काव्यमाला।
अभवत्तदा स कुरुवर्षचरः किल तक्षकोऽत्र विपिने ज्वलति । प्रविवेश मातृजठरं भयतः पुनरश्वसेन इति तत्तनयः ॥ ३३ ॥ सुतरक्षणाय फणिराजवधू?तमुत्पपात दिवि दीप्तदवात् । गिलनावशिष्टफणिपुच्छयुत विजयी चकर्त च तदीयशिरः ॥ ३४ ॥ अथ तक्षकप्रणयतः पवनैः परिमोह्य पाण्डुपृथिवीशसुतम् । अपमौलिपन्नगवधूजठरादहरत्तदा हरिरहीन्द्रसुतम् ॥ ३५ ॥ इति वश्चनेन कुपितः फणिनी विशिखैस्त्रिधा दिवि चकत नरः । दहनो हरिः स च तदाप्यशपद्भव निष्प्रतिष्ठ इति सर्पसुतम् ॥३६॥ खयमश्वसेनहतिवञ्चनया कुपितः कृतान्त इव पाण्डुसुतः। अतिभीषणैर्विशिखदण्डगणैर्गगनं प्यधाद्विधुरयन्मरुतः ॥ ३७ ॥ . अथ तं प्रति धुपतिरुग्ररुषारुणदृष्टिराजि निजमङ्गमधात् । गगनान्तरालविकरालदवज्वलनस्फुलिङ्गभरभिन्नमिव ।। ३८ ॥ जलदास्त्रमास्तृतवियद्वलयाम्बुदराजिराजितममोचि ततः। हरिणा रयेण हरिणाधिपतिप्रतिमल्लपौरुषकिरीटिरुषा ॥ ३९ ॥ त्रुटदुत्कटोत्कटतडित्पटलैदृढगर्जितैर्जितदिगन्तगजैः । जलदैस्तदैव परितः स्फुरितैः क्षयकालभीषणमकारि नभः ॥ ४० ॥ घनपद्धतिः पिहिततिग्मरुचिस्तिमिराणि तानि विततान तदा। विरराज येषु शिखिकीट इव द्युतिदीपितत्रिभुवनोऽपि दवः ॥ ४१ ॥ अपतन्घनाघनघुनाम्बुभरैर्गलहस्तिता इव शिखाः शिखिनः । स दधौ छमिच्छमितशब्दमिषादथ दुःखनिःश्वसितमल्परुचिः॥ ४२ ॥ स्वमथ प्रतापमिव मूर्तमयं परिभूयमानमवलोक्य दवम् । पवनास्त्रमस्त्रकुशलो मुसलध्वजधैर्यधाम विजयी व्यसृजत् ॥ ४३ ॥ अहह व्यरोधि युधि मत्तनुजानुज एष पाण्डुतनुभूरमुना । इति कोपितेन पवनेन किल ग्रुपतेरलोडि गृहमद्रिपतिः ॥ ४४ ॥ १. '-हृतकण्ठतया' ग. २. देवान्. ३. धारणक्रियाविशेषणम्. ४. घनः सान्द्रः. ५. बलभदः.
Aho! Shrutgyanam