________________
१ आदिपर्व-१२सर्गः]
बालभारतम् ।
१२३
अतिलौल्यतः कवलयन्मलिनाति काननं किमपि दावशिखी । बहुभक्षणेन शितिधूममिषात्तनुते स्म भोजनबहूद्दिरणम् ॥ २१ ॥ अवलोक्य दावदहनं तमहो परितापितत्रिभुवनं गहने । अपि पार्थकेतनकपिनिदधौ स्मयमद्भुतं हुतपलादपुरः ॥ २२ ॥ अपि तापयूँत्कृतिकृतां वदनोल्लसितस्वभावशिखिहेतिमिषात् । वनरक्षसां व्यधित गर्भशिखी विशतोऽन्तरभ्युपगमं शिखिनः॥ २३ ॥ उपरि प्रपत्य पिदधुः स्वशिशून्मृगयोषितोऽवगणितात्मरुजः । अथ तासु पाततरलाः सुतरामसहन्त हन्त विरहं नै मृगाः ॥ २४ ॥ प्रणयक्रुधा विरहितानि चिरं वनवासिलोकमिथुनानि तदा । कृतहाकृतीन्यपि परिक्रमणे सुखनिर्व्यथं पुलकितान्यमिलन् ॥ २५ ॥ भयसंभ्रमेऽपि परिरभ्य तथा सुखमाप तद्वनजुषां मिथुनम् । ह्रियमाणमग्निपतनेन यथा नहि जीवितव्यमपि वेद पुरा ॥ २६ ॥ हिमतागुणादभिमतं मरणं वरमेव वारिणि न दीप्तदवे । गलबद्धबालनिवहा न्यपतन्वनसुध्रुवो नदनदीषु ततः ॥ २७ ॥ दहनो दहेजननि हा सुत हा दयिते हहा हृदयनाथ हहा । हहहा सगर्भ हहहा भगिनीत्युदितं तदा वनजनेन मिथः ॥ २८ ॥ दवदह्यमानहरिहस्तिमहोरगमुख्यजीवरवकञ्चुकितः । गुरुभूधरस्फुटनभूनिनदो द्युसदां ददौ भुवनभङ्गभयम् ॥ २९ ॥ अथ खाण्डवप्रसभरक्षणधीः क्षणधीरिताब्दपटलो बलभित् । मुसलप्रमाणसरलैः सलिलैः प्रववर्ष पत्रिभिरिवास्य सुतः ॥ ३० ॥ अतिदीप्ततद्दवशिखाशिखरैः खलु दह्यमानमिदमेब्दजलम् । गगनेऽप्यवाप वडवाग्निहतोदधिवासदुःखमिति घिङ्तियतिम् ॥ ३१ ॥ अथ पार्थमार्गणगणोऽगणयजलवारिणी वियति कुट्टिमताम् । अतिवेगसंचरणपत्रभवत्पवनैरजिज्वलदहो ज्वलनः ॥ ३२ ॥ १. भस्मीकृतलङ्क इत्यर्थः. २. 'बूत्कृतिः' क-ख; 'फूत्कृतिः' इति क-पुस्तकस्थः शोधितः पाठः. ३. 'नृमृगाः' ग. ४. '-हंकृतीनि-' क. ५. भेघसलिलम्. ६. 'अगणयन्' क-ग. ७. 'ज्वलनम्' ख-ग.
Aho! Shrutgyanam