________________
१२२
काव्यमाला ।
पततां वनात्त्वरितमुत्पततां पतितं रवेण वपुरेव भुवि । पवनेन पार्थशरसार्थहता छदपद्धतिस्तु दिवमेव ययौ ॥ ९ ॥ अथ यक्षराक्षसतुरङ्गमुखप्रमुखैररण्यपुरुषैः सरुषैः । उपशान्तये हुतभुजः स्वभुजप्रथिताम्बुपात्रमभितः स्फुरितम् ॥ १० ॥ प्रहितस्य शान्तिजननाय जनैर्ज्वलने जलस्य न लवोऽप्यपतत् । अतिदूरतो ऽप्यतुलतापवशात्परिशोषितस्य नभसि स्फुरतः ॥ ११ ॥ मिलितैरतीव वनवासिजनैः प्रहितं पयो बहु दवज्वलने । अशनान्तरालजलपानकलां कलयांबभूव तरुभारभुजि ॥ १२ ॥ जलमानयन्घटघटीपटलैर्ज्वलनोपशान्तिकृतये किल यत् । स्वतनौ तदाशु परितप्ततरा निदधुर्न वस्तुनि जना ज्वलिते ॥ १३ ॥ अभितो भुजान्दहनशान्तिधियां चरणानपि त्वरितनाशभृताम् । अभिदत्पृथाजनिरनेकशरप्रसरै रथाङ्गपतनैश्च हरिः ॥ १४ ॥ अभितस्त्वमेव परिरक्ष शिखी भवतः सखा दहति संप्रति नः । पृषदश्वमेतदिव वक्तुमगुर्गुरु फाल्या गगनवर्त्म मृगाः ॥ १५ ॥ घनहर्षहेषितभृतस्तुरगाः स्वयमेत्य पेतुरनले ज्वलति । मरणे नितान्तनियते भयतो न महस्विनः परिहरन्ति महः ॥ १६ ॥ दर्शनैर्ददार यदुदारभयः किरिसंचयः किमपि भूवलयम् । विपिनं प्रदीपयति तद्दहने खनति स्म कूपमिव मूढमतिः ॥ १७ ॥ अपवैरमग्निभयतोऽनुगता हरयस्तलेषु करिणां शरणम् । निहताः पतद्भिरथ तैरपि ते क्व फलत्यकृत्यमभिमानमुचाम् ॥ १८ ॥ बिलनिर्गमे समणयः फणिनो यदधुः स्फुलिङ्गयुतधूमकलाम् । नितरामधो जगदपि ज्वलितं वनसीनि तेन दहनेन ततः ॥ १९ ॥
सरिदम्बुचूर्णितपरिज्वलिताचलनागवल्लिदलपूगफलैः ।
कवलीकृतैरिव तदा विपिनेऽरुणजिह्न एव विललास शिखी ॥ २० ॥
१. 'पृथाजनु : ' क. २. 'अधिपः' क- ख. ३. 'व्यदारयदुदारभयः' क- ख. ४. 'हरि संचय:' ग; 'करिसंचयः क. किरयः कोला:.
Aho ! Shrutgyanam