________________
१आदिपर्व-१२सर्गः]
बालभारतम् ।
मुरारये चक्रमरातिरौद्रमाग्नेयमस्त्रं च हुताशनेन । अमानवानामपि तानवाय कौमोदकी नाम गदाप्यदायि ।। ७२ ॥ नत्वा वह्निमथायुधानि विधुवन्नाबद्धगोधाङ्गुलि.
त्राणो वीरवरस्तदाजनि रथी पार्थो रथाङ्गी तथा । तत्साहाय्यसुदुःसहो हुतवहस्तत्र ज्वलन्नुज्ज्वला
ज्वालास्ताण्डवयन्स खाण्डववने चिक्रीड कल्पान्तवत् ।। ७३ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के
आदिपर्वणि कृष्णार्जुनास्त्रलाभो नामैकादशः सर्गः ।
द्वादशः सर्गः । समुदे पराशरसुतः सुतरां भवतोयराशितरणैकतरी । प्रससार भारतमिषेण मुखे खलु यस्य निर्मलवितानपटः ॥ १॥ अथ सप्रतिज्ञ इव दग्धुमिदं वनमुग्रधूममुखमुक्तशिखः । चिरकालनिर्दहनकोपवशात्कपिशः किल व्यलसदेष शिखी ॥ २ ॥ प्रबलप्रवृद्धबहुजिह्वतया कवलीकृतार्करुचिराजिरिव । अतिदुःसहोऽजनि शिखी महसा स हसन्निवाद्भुतयुगात्तदवम् ॥ ३ ॥ परिपालितस्य जलदेन सदा निजवैरिणा तरुगणस्य तदा । ज्वलितः शिरांसि विदलय्य शिखी जलदाश्रये न्यधितधूममिषात्॥४॥ दहनस्तदा स्फुटितवेणुघटाघटितोत्कटध्वनिमिषेण मुहुः । विपिनान्तरे तनुमतस्त्रसतः प्रति कोपहुंकृतिमिव व्यतनोत् ॥ ५ ॥ अभवत्तदा परमकोटिगतज्वलनाभिषङ्गपरितापभृताम् । वनवासिनां कलकलः सकलत्रिजगज्जनप्रलयभीतिमयः ॥ ६ ॥ वसनेऽग्रहीदथ कचप्रचये तदपुस्फुटत्पटु दृशौ दहनः । तदपि त्रसन्तमखिलाङ्गपदग्रहणादनिष्टयदरण्यजनम् ॥ ७ ॥ ज्वलनत्रसज्जननिषेधकरः कनकाभकेतुकपिशीर्षगुरुः । त्वरितं वनानि परितः स्फुरितैर्विरराज वप्र इव पार्थरथः ॥ ८॥ . १. कल्पान्तवह्निम्.
१६
Aho! Shrutgyanam .