________________
१२०
काव्यमाला।
पुनः पुनानो निजदर्शनेन तं भूपतिं शंभुरुवाच तुष्टः । सदा मदंशेन मुनीश्वरेण दुर्वाससा ते ऋतुकर्म भूयात् ॥ ६ ॥ इति प्रभोः प्राप्य गिरं स राजा चक्रे शताब्दी क्रतुमण्डलानि । अवाप्य विप्रान्गिरिशोपमेन दुर्वाससा संघटिताधिवासान् ॥ ६१ ॥ । ततः शताब्दीमखहव्यलाभैस्तद्द्वादशाब्दीघृतपानकैश्च । हुताशनः श्वेतकिभूपदत्तैर्लब्धाद्भुतग्लानिरभूदतेजाः ॥ १२ ॥ चिरं विरिश्चेरुपदेशमाप्य ग्लानिच्छिदायै दहनस्तदानीम् । स सप्तकृत्वः खलु खाण्डवेऽस्मिन्दीप्तोऽपि रक्षापुरुषैरलोपि ॥ ६३ ॥ शिखी वनस्यास्य समस्तजन्तुमेदांसि पीत्वा लमते स्वतेजः । इदं सदा रक्षति तक्षकस्य वास्तोष्पतिमित्रमहो महाहेः ॥ ६४ ॥ अहं स वह्निः शशिहंसकीर्ती लब्ध्वा भवन्तौ स्वजनीभवन्तौ । क्षणेन धक्ष्यामि विरिश्चिवाचा तत्खाण्डवं पाण्डवपद्मनाभौ ॥ ६५ ॥ महावने मानवदानवा हि रक्षांसि रक्षां सततं सृजन्ति । तथा हेरिस्तक्षकमैत्र्यदक्षो दाहक्षणे वर्षति खाण्डवेऽस्मिन् ॥ ६६ ॥ ज्वलाम्यलं तद्युवयोरवाप्य साहाय्यमाहात्म्यमहं वनेऽस्मिन् । सखा मदीयः स महाबलोऽपि कर्मण्यमुष्मिन्नजनिष्ट कुण्ठः ॥ ६७ ॥
(युग्मम्) कथां पृथासूनुरिमां निशम्य वह्नि जगाद प्रगलत्प्रमादः । नभोनिभे वक्षसि दन्तभासो गङ्गातरङ्गान्बलिवद्वितन्वन् ॥ ६८ ॥ सुदुर्बलं दोर्बलतो धनु, मन्दत्वरास्ते तुरगाश्च रथ्याः । रथस्तथोदग्ररयासहोऽयं बाणाश्च ताडग्रणकर्मणेऽल्पाः ॥ ६९ ॥ किमप्यमुष्यापि हरेर्न बाहुसामर्थ्यबाहुल्यसहं महास्त्रम् । पराक्रमोपक्रमतां त्वदर्थमेतान्पुनः साधय सिद्धिहेतून् ॥ ७० ॥ श्रुत्वेति तस्मै समदत्त वह्निः सोमक्षितीशाद्वरुणेन लब्धम् । रथं सिताश्वं कपिकेतुमस्त्रं गाण्डीवमप्यक्षयतूणयुग्मम् ॥ ७१ ॥ १. संबुद्धे रूपम्. २. इन्द्रः.
Aho! Shrutgyanam