________________
१आदिपर्व-११सर्गः] बालभारतम् ।
त्रिभुवनभवनान्तदंपतीनां तदात्त्व
ज्वलितविरहकीलाजिह्वकीलाभिलीलाम् ॥ ३८ ॥ परिवृढपरिरब्धप्रेयसीतारहारा
वलिविगलितमुक्ताचक्रवालच्छलेन । तरणिरथरथाङ्गक्षोदभीत्येव तारा
गुरुगृहशिखराणि स्पष्टमभ्येतवत्यः ॥ ३९ ॥ व्रतमतनुत मुक्ताहारवृत्तिश्चकोरः
कुमुदसमुदयेन ध्यानमध्यायि किंचित् । भृशमसृजदुलूकः कुञ्जवासं तपस्वी
पुनरुदयविभूत्यै यामिनीकर्तुरिन्दोः ॥ ४० ॥ दिनमणिमणिराजीधूतचूंमध्वजोगा
दुदयगिरिशिरोग्रान्नूनमुड्डीय तप्तः । त्वरितमधिरुरोह व्योमवृक्षस्य शाखा
शिखरमिव पतङ्गः प्राग्दिशो मौलिदेशम् ॥ ४१ ॥ द्विजपतिहुतमग्निर्नव्यमादत्त हव्यं __खलु मुखमखिलानां नाकिनां लोलजिह्वः । इति पतिरयमहां नूनमहाय शक्रा
दिकसुरमयमूर्तिस्तेजसां स्फूर्तिमाप ॥ ४२ ॥ पतितवति विपाण्डौ पक्कपत्रानुकारे
तुहिनमहसि जातः पल्लवोऽयं नवीनः । दिवसविभुनिभेन व्योमवृक्षस्य विश्व
त्रयसुकृतसुधाभिर्लब्धसेकस्य शङ्के ॥ ४३ ॥ यदकृत जनतासौ भक्तिभारं तदप्य
अलिनलनिजबिम्बच्छद्मना पद्मबन्धुः ।
१. 'कीलाजिह्वोऽत्राग्निः' इति ग-पुस्तकस्था टिप्पणी. २. धूमध्वजो वह्निः, ३. सू. र्यच्छलेन.
Aho! Shrutgyanam . .