________________
११८
काव्यमाला।
सपदि विपदपास्त्यै मूर्तिमत्पाकपिङ्गं
सुकृतफलमिवास्या हस्तवति व्यधत्त ॥ ४४ ॥ भुवि गतमतिदूरं दीर्घकाण्डाग्रचक्रा
कृति विततदलालि मारुहच्छायवृन्दम् । अवहत नवशूरव्याहतध्वान्तसेना
ततिपतितसदण्डच्छत्रखण्डानुकारम् ॥ ४५ ॥ अपि गृहकुहरेषु ध्वान्तजालानि जाला
न्तरसरलगतीनां चाकचक्यै रुचीनाम् । प्रसृमरहरिणाक्षीरत्नताटङ्कचक्र
प्रतिफलनविचित्रश्चित्रभानुर्जघान || ४६ ॥ गहनतरुवनस्थं तामसं त्रासकम्पा
कुलमिव चलपत्रच्छायपूरच्छलेन । द्युमणिरनणुशाखामध्यलब्धावकाशै
दिशिदिशि करदण्डैः खण्डयामास चण्डैः ॥ ४७ ॥ लघुतरबिलगर्भोदनदुर्गान्तरेषु
स्थितमपभयगोद्रीवमप्यन्धकारम् । दिवसविवशनश्यत्पन्नगश्रेणिचूडा___ मणिकिरणविकासैस्त्रासयामास भावान् ॥ ४८ ॥ दिवसमुखविशेषध्यानसंलीनयोगी
श्वरविसरशिरोऽधःस्कन्धभावन्धदम्भात् । अपि गुरुषु गिरीणां कंदरासु प्रविश्य
स्वयमुपचयधीरं ध्वान्तमध्वंसतार्कः ॥ ४९ ॥ रविरविरलसर्पत्सर्पशारीररोचिः
कवचितमपि नीचैर्विश्वशश्वन्निवासम् ।
१. सूर्यः.
Aho! Shrutgyanam