________________
११६.
काव्यमाला |
विधुरुचि शुचिवस्त्राच्छादमुत्क्षिप्य रात्रिप्रथित कुसुमपूजाहारिताराकुलं च । हरमरकतलिङ्गश्रीसहक्षेऽन्तरिक्षे
स्नपनमकृत भानुर्भानुकाश्मीरनीरैः ॥ १२ ॥ द्विषति शशिनि दूने नूनमम्भोजभारैः स्मितमवतमसौधे म्लानमेव प्रदीपैः ।
अपि सदृशरुचीनामन्तरं किंचिदेत -
ज्जयति जलमयानां तारतेजः स्पृशां च ॥ ३३ ॥ निशि सरसिरुहिण्याः संपदां संप्रदायं
यदहरत तदेष प्रातरायाति सूर्ये । विधुरपरमहीभृन्मौलितो दत्तझम्पः
स्फुटमरुददुदन्वत्तीरपङ्केऽर्धमग्नः ॥ ३४ ॥ अहरत हरगर्व पर्वतोऽयं प्रतीच्याः
स्फुरिततिमिरभित्तिद्योतिताधोविभागाः ।
कपिशपटुजटालीबन्धबन्धुत्वपात्र
द्युतिपरिचितलेखामात्रशीतांशुमौलिः ॥ ३५ ॥ तरणितरुणिमानं प्राप्य रक्ता किल द्यौरिति सितरुचिरब्धौ दुःखितः पश्चिमाद्रेः । द्रुतमतनुत झम्पां वार्धकाधिक्यभावा
गुलितपलितपङ्किः प्रोषिताभीषुदम्भात् ॥ ३६ ॥ व्यरुचदलिकदम्बं हेमरागैः परागै
र्विकचकमलकोणे बिभ्रदङ्गं पिशङ्गम् ।
हिममहिममनोज्ञे भानुमद्भानुवह्नि
ज्वलितमिव विलीनं वृन्दमिन्दुप्रियाणाम् ॥ ३७ ॥
गगनमलिनमानं धूमतामानयन्त्यः स्फुटमदधत भासो भास्वरा भास्करस्य ।
१. भानवः किरणा एव काश्मीरनीराणि कुङ्कुमजलानि तै:.
Aho ! Shrutgyanam