________________
१आदिपर्व-११सर्गः]
बालभारतम् ।
विधृतगृहवयस्यागर्वमीताभिराभिः
कृतकसुभगतार्थ पर्यरभ्यन्त धन्याः ॥ २५ ॥ हरिरिव दिवसोऽभूद्विश्वकान्तारचारी
स्फुरदरुणकरालीकेसरश्रीकरालः । तिमिरकरटिमालाभुक्तिरक्तेव दंष्ट्रा
घटितकुटिलवेषा यन्मुखे सूर्यरेखा ॥ २६ ॥ अतनुत तनुभाजां कामुकः पङ्कजिन्या
मुदमुदयमहीभृन्मूर्ध्नि गुप्तार्धमूर्तिः । सततविततमार्गश्रान्तिविश्रान्तिहेतोः
स्थित इव विनिवेश्योत्तुङ्गशैलाग्रशृङ्गे ॥ २७ ॥ क्रशयति बत सिन्धूर्मत्कलत्राणि तापै
रयमयममृतांशुं मत्तनूजं दुनोति । इति कुपितपयोधिप्रौढवीचीकराग्र। प्रहत इव स मग्नोऽप्याप भानुनभोग्रम् ॥ २८ ॥ त्रिभुवनजनताया दृम्भिराशयमान
भ्रमिरहिममरीचिः शोचिषां चाकचक्यैः । उदयगिरिशिरोऽग्रे तर्कुयन्त्रप्रपञ्च__ स्फुरिततनुरिवोच्चै रज्यमानो विरेजे ।। २९ ॥ अहिमकरघरट्टस्फारसंचारलीला
दलिततिमिरखण्डश्रोणिसंवावदूकैः । तरुणतरतमालश्यामलैरुल्लसद्भिः
प्रसृतमुषसि लक्षैः पक्षिणामन्तरिक्षे ॥ ३० ॥ गगनगहनगर्भे दाववत्पूर्वसंध्या
वतमसतृणजालं ज्वालयित्वास्तमाप । तदिह नियतसुप्तः कान्तिलेशोऽपि भानो
र्दशशतमितशाखश्चित्तचित्राय भावी ॥ ३१ ॥
Aho! Shrutgyanam