________________
११४
काव्यमाला |
सकृदपसृतपत्राभ्यन्तरभ्यन्तरोद्यत्परिमलमिलितालिश्रेणिकामण्डलानि । उदयिनि हृदयेशे कङ्कणानीव पङ्केरुहमुकुल करायैर्भेजिरेऽम्भोरुहिण्यः ॥ १९ ॥
रुचिनिचयममुञ्चत्तारकाचक्रवालं
विधुरपि विधुरत्वं प्राप शूरागमेऽस्मिन् । इति चकित इवोच्चैः कम्पितो दंपतीनां रतिगृह कुहरान्तर्दुर्गदीप्तोऽपि दीपः ॥ २० ॥ सपदि पदमशेषद्वीपदीपायमान
घुमणिकिरणवीथीचक्रवालप्रणुन्नैः । भृशमुपशमधूमैरोषधीनामिवोवीं
धरनिवहगुहान्तर्ध्वान्तभारैरकारि ॥ २१ ॥ विलसनसदनेभ्यो जग्मुराश्लिष्टकान्ता - स्तनघनघुसृणाङ्कद्वन्द्वदम्भेन सद्यः ।
स्फुरदुरसि युवानो मन्मथक्ष्मापलीला
रथ इव पृथुशोभे चक्रयुग्मं दधानाः ॥ २२ ॥
उदितमुदितकान्ताश्लेषपीयूषवीची
-
चकित इव कृशानुश्चित्ततश्चक्रनाम्नाम् । गुरुतरगिरिशृङ्गोत्सङ्गदुर्गेषु मञ्जु
घुमणिमणिगणोष्मच्छद्मना सद्म चक्रे ॥ २३ ॥
प्रिय विरहित को कीदृक्पयो वाहिनीभिः सह शममगुरिन्दुग्रावनिःस्पन्दनद्यः । किमपि कलितमौनस्तद्वियोगादिव द्रा
क्पतिरधित नदीनामेष दीनामवस्थाम् ॥ २४ ॥ द्रुतकृतपदपाताः प्रातरायातवन्तो नखरदपदलक्ष्मीमण्डिताः खण्डिताभिः ।
Aho ! Shrutgyanam