________________
११०
काव्यमाला ।
समजनि दयितानां बाढमुत्साहहेतोः सरभसरतलीला निर्दयानां तदेव ॥ ७७ ॥
क्षणमुपचितचञ्चच्चाटुमन्त्रोक्तिभाजो रभसभरनिरुद्धश्वासयोराशु यूनोः । मनसि रतमनन्यध्यायिनि ध्यायमानं
समजनि सममेव स्निग्धयोः सुप्रसन्नम् ॥ ७८ ॥ यूनाममन्दपरिरम्भभरै रतान्ते
कामोऽपि मूर्छित इव क्षणमेकमस्थात् ।
उज्जीवितः पुनरपि क्रमजायमान
मन्दातिशीत सुरभिश्वसितानिलेन ॥ ७९ ॥
आलिङ्गनाद्विघटनैकमना रतान्ते
नामुच्यत प्रमदया हृदयाधिनाथः । तस्या मुखं च सविशेषरसानुभावं पश्यन्नवापस पुनर्नवतामतीव ॥ ८० ॥ हृष्टस्मराणि भृशमुत्सुकतागृहीतवासोविपर्ययविलोकमृदुस्मितानि । व्रीडाविकुञ्चितविलोलविलोचनानि
यूनां रतान्तललितानि महोत्सवोऽभूत् ॥ ८१ ॥ सुभ्रुवामवयवेषु नखाङ्का भूषणं विरहिताभरणेषु । तद्वपुर्विरहितेषु तदर्था ग्लानिराभरणमाभरणेषु ॥ ८२ ॥ वीक्ष्य तादृशरसद्विगुणश्रीभासुराणि वदनानि युवानः । निन्यिरे मुहुरपि स्मरलोलालीलयैव दयिताः शयनीयम् ॥ ८३ ॥ उद्यत्तन्द्र इवोपभुक्तरजनीखेदेन चन्द्रोऽप्ययं
डिण्डीरप्रतिवीरमूर्तिरुचितः स्रस्यत्कराडम्बरः । अस्तक्ष्माधरमस्तकस्थितिमतिर्मन्ये चचार स्फुर
त्पारावारतरङ्गरङ्गितमरुत्पूराय दूरादपि ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आदिपर्वणि सुरापानसुरतवर्णनो नाम दशमः सर्गः ॥
Aho ! Shrutgyanam